________________
[ पा० २. सू० १.]
श्री सिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ५४५
कुले परस्परां भोजयतः, परस्परं भोजयत इत्यादि । इमे सख्यौ कुले वा अन्योन्यामन्योन्यं वा भोजयतः सखीभिः कुलैर्वा अन्योन्यामन्योन्येन वा भोज्यते, इमे सख्यौ कुले वा इतरेतरामितरेतरं वा भोजयतः सखीभिः कुलैर्वा इतरेतरामितरेतरेण वा भोज्यते । अपुंसीति किम् ? इमे नराः परस्परं भोजयन्ति, नरैः परस्परेण भोज्यते, नरैः परस्परस्मै दीयते ।
5
अपरोऽर्थः परस्परादीनामपुंसि प्रयुज्यमानानां संबन्धिनः स्यादेरमादेशो वा भवति । प्रभिः सखीभिः कुलैर्वा परस्परं परस्परेण वा भोज्यते, स्त्रीभिः कुलैर्वा परस्परं परस्परस्मै वा दीयते । अपरोऽर्थः परस्परादीनां पुंसि प्रयुज्य - मानानां संबन्धिनः स्यादेरम्वा भवति । एभिर्नरैः परस्परं परस्परेण वा भोज्यते, एभिर्नरैः परस्परं परस्परस्मै वा दीयते । एवं च स्त्रीनपुंसकयोरमामौ 10 द्वावादेशौ वा भवत इति त्रैरूप्यम् । इमे परस्परादयः शब्दाः स्वभावादेकत्वपुंस्त्ववृत्तयः कर्मव्यतीहारविषयाः, प्रस्मादेव च निर्देशात् परान्येतर. शब्दानां सर्वनाम्नां द्विर्वचनादि निपात्यते ॥ १ ॥
न्यशब्दस्य
न्या० स०-- परस्परान्योन्येतरेतरेति । समाहारद्वद्वात् षष्ठी, न चान्योस्वराद्यदन्तत्वादल्पस्वरत्वाच्च परस्परशब्दात् पूर्वं प्रयोग आशङ्कनीयः 115 पूर्वं तस्येतरेतरशब्देन द्वंद्व े परस्परशब्दस्यैवाल्पस्वरत्वादिति । इमे सख्यौ परस्परां भोजयत इति भुङ्क्त े परस्परः कर्त्ता तं भुखानं सख्यौ प्रयुञ्जाते 'गतिबोध' [ २. २. ५. ] इत्यरिणक्कर्तु : परस्परस्य कर्म्मत्वम्, विधानसामर्थ्यात् साम् न भवति, अन्यथा सामित्येव कुर्यात् । आभिः सखीभिः परस्परां भोज्यत इति श्रत्र करणे सहार्थे वा यदा तृतीया तदैको णिग्, कथं भुङ्क्त े जनस्तं भुञ्जानं सख्यः प्रयुञ्जते रिग्, केन 20 सह केन कृत्वा वा परस्परेणेति यदा तु कर्त्तरि तृतीया, तदा णिग्गद्वयं कथं भुङ्क्त जनः तं भुञ्जानं परस्परः प्रयुङ्क्ते रिग् तं परस्परं भोजयन्तं सख्यः प्रयुञ्जते द्वितीयो णिग् ततः कर्त्तरि तृतीयेति । इत्थमनुक्तस्यापि जनस्य कर्तृत्वं बोध्यमन्यथा 'गतिबोध' [ २.२.५ ] इत्यादिना परस्परस्य कर्म्मत्वमेव स्यात् । अथवा प्रथमैकवचनस्यायमाम्भावः । तदभावपक्षे परस्परो भोज्यत इत्यादि द्रष्टव्यम्, एवमन्यत्रापि ग्रामभावपक्षे25 यथायोगमितरत् सर्वादिकार्यं द्रष्टव्यम् ।
अपरोऽथं इति निर्देशस्य समानत्वात् प्राप्तमन्यदर्थद्वयं दर्शयति । ननु कथमिमे सख्यौ परस्परां भोजयतः श्रभिः सखीभिः परस्परेण भोज्यते इति द्वयोर्बहुषु चैकवचनं कथं च स्त्रियां आप् न भवति, कथं चैतेषां समुदायानां सर्व्वाद्यपठितानां सर्व्वादिकार्यं सर्व्वादित्वे वा कथं न नपुंसकस्य 'पञ्चतोऽन्यादे:' [ १.४. ५८. ] इति दादेश 30