Book Title: Siddh Hemhandranushasanam Part 01
Author(s): Hemchandracharya, Udaysuri, Vajrasenvijay, Ratnasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust

View full book text
Previous | Next

Page 554
________________ ५१२ ] बृहद्वृत्ति-लघुन्याससंवलिते [पा० १. सू० १२०.] त्यदादिः ।। ३. १. १२० ॥ त्यदादि नान्येन च सहोक्तौ त्यदादिरेवैकः शिष्यते । स च चैत्रश्च तौ, यश्च मैत्रश्च यौ, अयं च चैत्रश्च इमो, कश्च मैत्रश्च को, स्पर्धे परमिति त्यदादीनां मिथः सहोक्तौ यद्यत्पाठे परं तत्तदेवैकं शिष्यते-स च यश्च यौ, यश्च एष च एतौ, एष च अयं च एतौ, स च त्वं च युवाम्, त्वं च भवांश्च 5 भवन्तौ, भवांश्च अहं च आवाम्, अहं च कश्च कौ, अहं च स च त्वं च वयम् । बहुलाधिकारात् क्वचित् पूर्वमपि स च यश्च तौ, अयं च एष च इमौ, त्वं च भवांश्च युवाम् । त्यदादेः कृतैकशेषस्य स्त्रीपुंनपुंसकलिङ्गानां युगपत्प्रयोगात् पर्यायप्राप्तौ शिष्यमाणलिङ्गप्राप्तौ वा स्त्रीपुंनपुंसकानां सह वचने स्यात्परमिति यथापरमेव लिङ्ग भवति-सा च चैत्रश्च तौ, स च देवदत्ता च तौ,-अत्र10 स्त्रीपुंसलिङ्गयोः परं पुंलिङ्गमेव भवति, सा च कुण्डे च तानि-पत्र स्त्रीनपुंसकयोः परं नपुंसकमेव भवति, स च कुण्डं च ते,-तच्च चैत्रश्च ते,-अत्र पुनपुंसकयोः परं नपुंसकमेव भवति। कथं स च कुक्कुटः सा च मयूरी ते कुक्कुटमयूयौं ? उच्यते, परलिङ्गो द्वन्द्वोऽशीति समासार्थस्य लिङ्गातिदेशात् तद्विशेषणस्य त्यदादेरपि तल्लिङ्गतैव न्याय्येति ।। १२० ।। 15 . न्या० स० त्यदादिः। अन्येन चेति सहोक्ताविति वर्तनात् सहार्थस्य च द्वितोयमन्तरेणाभावात् द्वितीयो लभ्यते, स च विशेषानुपादानात् त्यदादिरन्यश्च ग्रह्यते, इत्याह-त्यदादिनान्येन चेत्यादि । अन्यत्वं च प्रत्यासत्तेस्त्यदाद्यपेक्ष्यमेव । स च चैत्रश्चेति ननु च त्यदादेः सामान्यशब्दत्वाच्चैत्रोऽपि स चेति निर्देष्ट्र शक्यो न च तावित्युक्त स च चैत्रश्चेति प्रत्ययः किन्तु स च स चेति तत्र च स्यादौ सरूपत्वात् पूर्वेणैव सिध्यतीति20 व्यर्थोऽस्योपन्यास: ? न व्यर्थः, स च चैत्रश्चेत्येवंविवक्षायांद्वंद्वः प्राप्नोतीति, तथाहितच्छब्दो यथा चैत्रव्यतिरिक्तार्थपरामर्शीति प्रकरणादिनाऽवगतं तदा गोबलीवर्द्ध वत्तच्चैत्राविति स्याद्वाक्यवत्तच्छब्दस्य वृत्तावप्यपेक्षा प्रतीयते इति द्वद्वनिवृत्तिप्रदर्शनार्थोऽस्योपन्यास इत्यदोषः । पूर्वमपीति न केवलं तावत् स्पर्द्ध यत्परं तच्छिष्यत इति क्वचिच्च पूर्वमपीत्यर्थः ।25 शिष्यमाणस्य लिङ्गानुशासने लिङ्गस्य चिन्तायां कृतायामपि विस्मरणशोलं प्रति स्मारयतुमाह-त्यवादेः कृतैकशेषस्येत्यादि। कथमिति यदि लिङ्गानां सहविवक्षायां परमेव लिङ्ग भवति, कथं ते कुक्कुटमयूयौं इति स्त्रीलिङ्गता? इत्याशङ्कार्थः । उच्यतेइत्यादिनाऽत्र परिहारमाह-अयमों द्वद्वस्य परलिङ्गत्वात् त्यदादेश्चात्र द्वद्वशेषत्वात्

Loading...

Page Navigation
1 ... 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658