Book Title: Shildutam Author(s): Charitrasundargani, Tattvaprabhvijay Publisher: Jinprabhsuri Jain GranthmalaPage 18
________________ 11 . शीलदूतम् (स्थुलभद्र चरित्रम्) मेघबुद्ध्ये व (मेघस्यापि प्रोक्तविशेषण त्रय विशिष्टत्वात्) रवे आकाशे (स्थिताः इति शेषः) बलाका बकाङ्गना सेविष्यन्ते सस्पृहमालोकयिष्यन्ति / बलाकाः मेघं दृष्ट्वा खे उड्डीयमाना गर्भं दधत इति मेघस्तत् प्रियः इति मेघसदृशं भवन्तं दृष्ट्वा तद् बुद्धयैव भवन्तमपि सेविष्यन्त इति तात्पर्यम्।। तव विरहेऽप्यहं कथं जीवन्ती तिष्ठामीत्याह - अद्य श्वो वा सखि ! तव वरः स्थूलभद्रः समेता, स्वस्थं तस्मात् कुरु निजमनो मुञ्च मुग्धे ! विषादम् / दधे प्राणानहमिति सखीभाषितैर्नाथ ! वाऽऽशा, सद्यः पाति प्रणयिहृदयं विप्रयोगे रुणद्धि / / 10 / / व्याख्या - हे सखि ! समानसुखदुःखे ! तव भवत्या वरः प्रियः स्थूलभद्रः अद्य अस्मिन्नेव दिवसे श्वः अग्रिमेऽव्यवहितदिने वा समेता समागन्ता तस्मात् (तावत्) [अतः तद् वियोगदुःस्थंढ निज मनः चेतः स्वस्थं स्वस्मिन् स्वीयप्रकृती तिष्ठति इति स्वस्थम् - अव्याकुलं कुरु विधेहि, हे मुग्धे ! सरलहृदये विषादम् खेदं मुञ्च परित्यज इति पूर्वोक्तरूपैः सखीभाषितैः समानवयस्कहितेच्छुजनवचनैः हे नाथ ! स्वामिन् अहं तव प्रिया प्राणान् जीवितम् दधे धृतवती / पक्षान्तरोत्थापनपूर्वकं प्राणधारणं समर्थयति - वा अथवा आशा पुनः सङ्गमसम्भावना विप्रयोगे प्रियजनविच्छेदे सद्यः पोति विच्छेदसमकालमेव पतनशीलं प्रणयिहृदयं प्रणयिनः प्रियजनविप्रयुक्तस्य स्निग्धजनस्य हृदयं जीवनचिह्नभूतमन्तःकरणं रुणद्धि पतनान्निवारयति / अथ स्वाभिप्रायानुसारं कोशावेश्या श्रीरथूलभद्रमुनिवरं भोगेषु प्रेरयति -Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102