Book Title: Shildutam
Author(s): Charitrasundargani, Tattvaprabhvijay
Publisher: Jinprabhsuri Jain Granthmala
View full book text
________________ शीलदूतम् (स्थुलभद्र चरित्रम्) गृह्णन् दीक्षां निजपरिजनं त्वं विमुञ्चन् क्षणात् तत्, .तोयोत्सर्गस्तनितमुखरो मा स्म भूविक्लवास्ताः / / 41 / / व्याख्या: - 'हे प्रिय ! पुरा 'इह मया वः भृतिः शश्वत् कार्या' इति उक्तिपूर्व भवान् मत्सखीनां पाणौ यत् पयः प्रादात्, दीक्षां गृह्णन्, निजपरिजनम् विमुञ्चन् त्वम् तत् क्षणात् तोयोत्सर्गस्तनितमुखरः मा स्म भूः, ताः विक्लवाः' इत्यन्वय / मन्त्रिव्यापारस्यानेकछलछिद्रान्वितत्वेन तदस्वीकारे वाणिज्यमेव विधेहीत्याह - . व्यापारस्ते यदि न हृदये संमतो ज्ञाततत्त्चे, वाणिज्येनार्जय धनचयं त्यागभोगक्षमं तत् / अङ्के क्षिप्तानव तव पुराऽऽनेन पित्रा स्वबन्धून्, मन्दायन्ते न खलु सुहृदामभ्युपेतार्थकृत्याः / / 42 / / व्याख्या - चेत् ज्ञाततत्त्वे ज्ञातं परिचितं तत्त्वं सांसारिकमिथ्यात्वरहस्यं येन तादृशो ते तव हृदये अन्तःकरणे व्यापारः मन्त्रित्वेन व्यापृतिः न संमतः इष्टः, तत् तदा वाणिज्येन क्रयविक्रयकरणेन त्यागभोगक्षमं त्यागाय दानाय भोगायं स्व सुखाय च क्षमं योग्यं धनचयं सम्पत्तिजातम् अर्जय स्वाधीनी कुरु अनेन धनचयेन, पुरा पूर्वसमये पित्रा जनकेन तव भवतः अङ्के आश्रये क्षिप्तान् समर्पितान् स्वबन्धून् निजज्ञातीन् अव रक्षय / अर्थान्तर न्यासालङ्कारेणैतत् समर्थयति-सुहृदाम् शुद्धहृदयानां जनानाम्मित्राणां वा कृते अभ्युपेतार्थकृत्या अभ्युपेता अङ्गीकृता अर्थस्य प्रयोजनस्य कृत्या क्रिया यैः तादृशाः जनाः न खलु नैव मन्दायन्ते विलम्बन्ते विरमन्ति

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102