Book Title: Shildutam
Author(s): Charitrasundargani, Tattvaprabhvijay
Publisher: Jinprabhsuri Jain Granthmala
View full book text
________________ . 40 शीलदूतम् (स्थुलभद्र चरित्रम्) पुण्यार्थमेव तपोऽभीष्टं तच्च पुण्यमन्यथापि सम्पाद्य मित्याह - पुण्याय त्वं स्पृहयसितरां तत् परं नोपकारात्, स स्यात् प्रायः प्रियवर ! सरस्कूपवापीविधानः ? / कुर्याः श्रेयः प्रतिदिनमिदं तद् गृहस्थोऽपि लुम्पन्, स्रोतोमूर्त्या भुवि परिणतां रन्तिदेवस्य कीर्तिम् / / 49 / / .. व्याख्या - त्वं भवान् पुण्याय श्रेयः साधनाय स्पृहयसितराम् अत्यन्तं स्पृहां करोषि, उपकारात् परोपकरणात् परं उत्कृष्टं तत् पुण्यं न नास्ति, हे प्रियवर ! स परोपकारः प्रायः बाहुल्येन सर-कूपवापीविधानैः सरसां कूपानां वापीनां च सम्पादनैः स्यात्, तत् तस्मात् गृहस्थः स्वगृहे स्थितः, गार्ड्स स्थ्यमनुतिष्ठन् अपि इदं परोपकाररूपं श्रेयः पुण्यं कल्याणं वा प्रतिदिनम् दिने दिने कुर्याः विधेयाः, (किम्भूतः सन्) स्रोतोमूर्त्या चर्मण्वतीनदीप्रवाहरूपेण भुवि पृथिव्याम् परिणताम् फलिताम् रन्तिदेवस्य एतन्नाम्नः पौराणिकस्य राज्ञः कीर्तिम् ख्यातिं लुम्पन् विलोपयन् / अस्य पित्रा कृतां कीर्ति श्रावयति - यं तातस्ते पुरहितकृतेऽकारयच्छिल्पिसारैः, प्राकारं तं स्फटिकघटितं नाथ ! पश्याभ्रलग्नम् / यं वीक्षन्ते दिवि दिविषदो नीलवेषायुतं श्रा गेकं मुक्तागुणमिव भुवः स्थूलमध्येन्द्रनीलम् / / 50 / / व्याख्या - ते तव तातः जनक शकटालो मन्त्री यं प्राकारम् शिल्पिसारैः शिल्पिनां गृहादिनिर्माणकुशलानां सारैः मुख्यैः पुरहितकृते नगररक्षार्थम् अकारयत् निरमापयत्, हे नाथ ! स्फटिकघटितम् स्फटिकेन तन्नामकमणिना घटितं

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102