Book Title: Shildutam
Author(s): Charitrasundargani, Tattvaprabhvijay
Publisher: Jinprabhsuri Jain Granthmala

Previous | Next

Page 65
________________ शीलदूतम् (स्थुलभद्र चरित्रम्) अथवा प्रकटधर्मस्य रसिकाः अनुरागिणः पात्रदानप्रवीणाः पात्रेषु सत्पात्रेषु यद् दानं वितरणं तत्र प्रवीणाः निपुणाः, एनोहीनाः एनोभिः पापैः हीनाः रहिता विततविलसत्कीर्तयः वितता विस्तृता विलसन्ती शोभमाना च कीर्तिर्येषां तादृशाः सन्तः सज्जनाः सन्ति / सुमुदिताः सुप्रसन्नाः काममग्नाः मदनव्यापार एव सततासक्ताः कामिनः कामरसिकाः यानं वाहनं रथादि बद्ध्वा उपवनाद् बहिरेवावरोध्य, वारस्त्रीभिः वाराङ्गनाभिः सह साकं बहिरुपवनम् पुराद् बाह्यमुद्यानम् निर्विशन्ति कामक्रीडादिभिरुपयुञ्जन्ति | पुरीमेव वर्णयति - गच्छंस्तूर्णं नभसि तरणिः शङ्कते नित्यमेवं, सौधेष्वेव स्खलतु मम मा स्यन्दनोऽभ्रंलिहेषु / मेधा यस्यामतिगुरुगृहै: प्राप्य संघट्टमाराद्, धूमोद्गारानुकृतिनिपुणा जर्जरा निष्पतन्ति / / 77 / / व्याख्या - यस्यां पुरि नभसि आकाशे गच्छन् रथेनसंचरन् तरणिः सूर्यः नित्यम् प्रतिदिनम्, एषु अग्रतो दृश्य मानेषु अभ्रंलिहेषु अभ्राणि मेधान् लिहन्ति स्पृशन्ति इत्यभ्रंलिहाः 'वहाभ्राल्लिहः (5-1-123) इति खश्, खित्यनव्ययारुषो० (3-2-111)' इति मोऽन्तादेशः, तेषु सौधेषु सुधया निर्मिताः सौधाः प्रासादाः तेषु मम मे स्यन्दन रथः मा नैव स्खलतु संघट्टताम्-एवम् पूर्वोक्तरूपेण शङ्कते संदेग्धि | मेघाः घनाः अतिगुरुगृहै: बहुविशालप्रासादैः आराद् दूरतः एव संघटुं संघर्षं प्राप्य लब्ध्वा जर्जराः शकलिताः सन्तः धूमोद्गारानुकृतिनिपुणाः धूमोद्गाराणाम् वाष्पनिर्गमानाम् अनुकृतौ अनुकरणे निपुणाः चतुराः निष्पतन्ति निर्गच्छन्ति / .

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102