Book Title: Shildutam
Author(s): Charitrasundargani, Tattvaprabhvijay
Publisher: Jinprabhsuri Jain Granthmala

View full book text
Previous | Next

Page 80
________________ 73 शीलदूतम् (स्थुलभद्र चरित्रम्) व्याख्या - अस्याः मम सख्याः कोशाया तव भवतः विरहजं वियोगावस्थाकृतं चेष्टितम् व्यापारम् आलोक्य निरीक्ष्य यत् यस्मात् न भिन्नम् विदीर्णम्, तत् तस्मात्, एतत् मदीयं हृत् हृदयं वज्रसारम् वज्रस्य कुलिशस्येव सारो बलं दृढत्वं वा यस्य तादृशम्, इति वयं कोशा सख्यः जानीमः अवधारयामः, तत् तस्मात् हे सदय हृदय ! सदयं दयया सहितं हृदयं यस्य तदामन्त्रणम्, अत्र अस्यां मम सख्यां कोशायां ते तव कारुण्यं करुणोपयुक्तं कर्म विधातुं कर्तुम् उचितम् योग्यम्, अत्र अर्थान्तरन्यासेन प्रकृतम) समर्थयति प्रायः बाहुल्येन सर्वः सकलः आर्टान्तरात्मा स्निग्धान्तः करणो जनः करुणावृत्तिः करुणया सहितावृत्तिः आचरणं यस्य तादृशः भवति जायते / / यदि भवानद्यापि नैनां संभावयिष्यति नूनमियं प्राणां स्त्यजेत् इत्याह - अस्मद्वाक्यं यदि नं हि भवान् मानयिष्यत्यदोऽपि, प्राणत्यागं तदियमचिरात् सा विधास्यत्यवश्यम् / भूयो भूयः किमिह बहुना जल्पितेनाऽत्र भावि, प्रत्यक्षं ते निखिलमचिराद् भ्रातरुक्तं मया यत् / / 10 / / व्याख्या - . भवान् ! श्रीस्थूलभद्रः अदः अनुपदमुक्तम् अस्मद्वाक्यम् मदीयं वचनम् यदि चेत् न मानयिष्यति स्वीकरिष्यति अपि इति संभावनायाम्, तत् तर्हि इयं सा प्रत्यक्षदृश्यमाना कोशा सखी अचिरात् शीघ्रम् प्राणत्यागम् जीवितपरिहारम् अवश्यं निश्चितं विधास्यति करिष्यति / हे भ्रातः ! इति स्वजनतारव्यापनाय अवञ्चनीयताप्रतीत्यर्थं चामन्त्रणम् इह अस्मिन् विषये भूयः - भूयः वारं - वारं बहुना अधिकेन जल्पितेन कथितेन किम् किमपि प्रयोजनं नास्ति, अत्र अस्मिन्नेव काले स्थाने वा ते तव निखिलम् सर्वं

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102