Book Title: Shildutam
Author(s): Charitrasundargani, Tattvaprabhvijay
Publisher: Jinprabhsuri Jain Granthmala
View full book text
________________ 74 शीलदूतम् (स्थुलभद्र चरित्रम्) प्रत्यक्षम् साक्षात्कृतम् भावि भविष्यति, किं तत् सर्वम् ? यत् सर्वं मया कोशा सख्या उक्तम् कथितम् / / अहनि कथञ्चिदाश्वसित्यपि रात्रौ तु कष्टा स्थिति रित्याह . वार्ताव्यग्रां तुदति न तथा त्वद्वियोगोऽहनीमां, . यद्वद्रात्रौ कृतबहुशुचं चन्द्ररोचिश्चितायाम् / . पश्यत्वेनां स्वयमपि भवानद्य भूमीशयानां, तामुन्निद्रामवनिशयनासन्नवातायनस्थः / / 101 / / व्याख्या - अहनि दिवसे वार्ताव्यग्रां त्वत्सम्बन्धि समालापव्यस्ताम् इमाम् कोशाम् त्वद्वियोगः तव विरहः तथा तद्वत् न तुदति व्यथयति, पद्वत् यथा रात्री निशि चन्द्र रोचिश्चितायाम् चन्द्रस्य रोचिः ज्योत्स्नैव चिता शवदाहचुल्ली तस्यां कृतबहुशुचम् विहिताधिकशो काम्, (तुदति) अद्य अस्यां रात्रौ भवान् स्थूलभद्रः स्वयमपि आत्मनाऽपि अवनिशयना सन्नवातायनस्थः अवनी भूमौ यत् शयनम् शय्या स्तरणम् तदासन्ने तत्समीपस्थिते वातायने गवाक्षे स्थितः आश्रितः सन् भूमीशयानाम् पृथ्वीतलपरिवृत्ताम् उन्निद्राम् उच्छिन्न निद्राम् ताम् एनाम् पूर्वोक्तरूपां कोशाम् पश्यतु प्रत्यक्षी करोतु / / स्वाभिप्रायं निगमयति - विज्ञप्तिं मे सफलय कुरु स्वं मनः सुप्रसन्नं, सख्या साकं मम भज पुनर्देव ! भोगान् विचित्रान् / वामाक्ष्यस्यास्त्वयि सति मुहुः स्पन्दमेत्य प्रसन्ने, मीनक्षोभाच्चलकुवलयश्रीतुलामेष्यतीव / / 102 / / . व्याख्या हे देव ! क्रीडाविशारद ! मे मम विज्ञप्तिं प्रार्थनां सफलय सार्थिकां

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102