Book Title: Shildutam
Author(s): Charitrasundargani, Tattvaprabhvijay
Publisher: Jinprabhsuri Jain Granthmala

View full book text
Previous | Next

Page 96
________________ 89 . शीलदूतम् (स्थुलभद्र चरित्रम्) सुप्रकालते इति विद्युत् तथाभूतेन शीलरत्नेन ब्रह्मचर्यरूपेण रत्नेन मणिना विप्रयोगः विरहितत्वं माभूत् न स्यात् / / अथ श्रीस्थूलभद्रस्य प्रस्थानमाह - नीत्वा मासानथ स चतुरस्तत्र शच्छीलशाली गत्या सूरीन् समयचतुरो भूरिभक्त्या ववन्दे / तस्थौ गेहे मनसि दधती सा सुखं जैनधर्म, केषां न स्यादभिमतफला प्राथना ह्युत्तमेषु ? / / 124 / / व्याख्या - अथ एतावदालापनन्तरम् सच्छीलशाली सता शोभमानेनशीलेन ब्रह्मचर्येण शालते शोभते, तच्छील इति सच्छीलशाली, समयचतुरः समये स्वसाम्प्रदायिकाचारे चतुर निपुणः सः स्थूलभद्रः तत्र कोशागृहे चतुरः चतुःसंख्याकान् मासान् नीत्वा अतिवाह्य, सूरीन् आचार्यान् गत्वा प्राप्य भूरिभक्त्या बहुतर श्रद्धया ववन्दे प्रणनाम् / मनसि चेतसि जैनधर्मं आर्हतं धर्मं दधती धारयन्ती सा कोशा गेहे स्वगृह एव सुखं कामपीडादिरहितं .यथा स्यात् तथा तस्थौ न्यवसत्, हि यतः केषां जनानाम् उत्तमेषु श्रेष्ठजनेषु (कृता) प्रार्थना याचना अभिमतफला अभिमतमिष्टं फलं परिणामो यस्याः तादृशी न स्यात् न भवेत्, अपि तु स्यादेवेति भावः / / ' अथोभयोरग्रिमं जीवनवृत्तमाह - यात्वा पारं समयजलधेः स्थूलभद्रः स भेजे, सूरीशत्वं भुवि जनमनो रजयामास कामम् / हित्वा तत्त्वामृततररसैः साऽपि चित्तं स्वमिद्धानिष्टान् भोगानविरतसुखं भोजयामास शचत् / / 125 / /

Loading...

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102