Book Title: Shildutam
Author(s): Charitrasundargani, Tattvaprabhvijay
Publisher: Jinprabhsuri Jain Granthmala
View full book text
________________ 88 शीलदूतम् (स्थुलभद्र चरित्रम्) व्याख्या - आप्तसम्यक्त्वलाभाः सम्यक्त्वस्य सम्यग्दर्शनस्यलाभः प्राप्तिः सम्यक्त्वलाभः आप्तः अधिगतः सम्यक्त्वलाभो यया सा आप्त सम्यक्त्वलाभा सा कोशा धन्यमन्या आत्मानं धन्यां मन्यते इति धन्यं मन्या कर्तुः खश् [51-117]' इति खशि ‘खित्यनव्ययारुषो मोन्तो ह्रस्वश्च [3-2-111]' इति मान्तत्वे ह्रस्वे च धन्यं मन्येति / मुनिवचनतः मुनिवाक्यात् अखिलं सर्वं.तत् साधूपदिष्टम् अङ्गीचकार स्वीचकार / धन्यं मन्यत्वपूर्वकं स्वाकारमर्थान्तरन्यासेन समर्थयति-गुरुनिगदिताः गुरुभिरुक्ताः धर्मोपदेशाः धर्मस्य सुकृताचरणस्य उपदेशाः आद्योच्चारणानि दुष्टे दुःशीले जने द्वेषं वैरुपतां यान्ति प्राप्नुवन्ति, इष्टे समुचिते प्रीतिपात्रे वा वस्तुनि पदार्थे शिष्यरूपे उपचितरसाः उपचितः वृद्धिंगतः रस आस्वादः परिणामो वा येषां तथाभूताः प्रेमराशीभवन्ति स्नेहसंघाततां यान्ति / / . अथ गन्तुकामोऽसौ शुभाशिषा तां सभा जयति . भद्रे ! भद्रं भवतु सततं ते जिनेन्द्रप्रसादाद् नन्तुं पादानथ निजगुरोरेष यास्यामि शस्यान् / / ध्यायन्त्यै श्रीजिनपरिवृढं शीलरत्नेन शधद् मा भूदेवं क्षणमपि च ते विद्युता विप्रयोगः / / 123 / / व्याख्या - हे भद्रे ! कल्याणि ! ते भवत्याः जिनेन्द्रप्रसादात् जिनेन्द्रस्य जिनश्रेष्ठस्य तीर्थङ्करस्य प्रसादात् प्रीतेः कारणात् भद्रं कल्याणं भवतु जायताम् / अथ एतदनन्तरम् एषः अहम् शस्यान् प्रशंसनीयान् निजगुरोः स्वगुरोः दीक्षादायकश्रीसम्भूतिविजय नाम्नः सद्गुरोः पादान् चरणान् नन्तुं वन्दितुं यास्यामि गमिष्यामि / एवं पूर्वोक्तरूपं श्रीजिनपरिवृढं श्रियायुक्तं जिनपरिवृढं जिनश्रेष्ठं शश्वत् सर्वदा ध्यायन्त्यै स्मरन्त्यै ते तुभ्यं विद्युता विद्योतते

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102