Book Title: Shildutam
Author(s): Charitrasundargani, Tattvaprabhvijay
Publisher: Jinprabhsuri Jain Granthmala
View full book text
________________ 91 शीलदूतम् (स्थुलभद्र चरित्रम्) अथास्य स्वर्गप्राप्तिमाह - - सच्चारित्रं यतिपतिरसौ कर्मवल्लीलवित्रं, दीर्घ कालं कलितविमलज्ञानदानः प्रपाल्य / भेजे स्वर्गं त्रिदशललनालोचनाब्जाऽर्कतुल्यो, निःशल्यान्तर्निरुपमसुखं वीतनिःशेषदुःखम् / / 127 / / व्याख्या - कलितविमलज्ञानदानः कलितं विहितं विमलज्ञानस्य दानं येन सः असौ पूर्वोक्तः यतिपतिः मुनीन्द्रः कर्मवल्लीलवित्रम् कर्माण्येव वल्ल्यः लता तस्य लवित्रम् भेदकम् सच्चारित्रम् शुभसंयम दीर्घ कालं बहुसमयं यावत् प्रपाल्य पालयित्वा, त्रिदशललनालोचनाब्जार्कतुल्यः त्रिदशललनानां स्वर्वनितानां लोचनान्येव नेत्राण्येव अब्जानि कमलानि तेषां कृते अर्कतुल्यः सूर्यसदृशः यथाऽब्जानि सूर्योदयेऽतिविकसानि भवन्ति तथैव श्रीस्थूलभद्रमुनीन्द्रं स्वर्गमागच्छन्तं दृष्ट्वा स्वर्वनितानां लोचनानि विकसितानीति भावः निःशल्यान्तर्निरुपमसुखम् निःशल्यम् निरुपद्रव्यम् अन्तः अन्तःकरगस्य निरुपमम् अतुलं सुखं यत्र तम्, वीतनिःशेषदुःखम् वीतम् अपगतम् निःशेष सकलं दुःखं यत्र तम् स्वर्गं देवलोकं भेजे प्राय / / अथ कोशायाः स्वर्गप्राप्तिमाह - * * कोशाऽपि श्रीजिनमतरता शीलमाराध्य सम्यक्, पत्युः स्नेहादिव दिविषदां धाम सा स्राग् जगाम / आपद् व्यापद्रहितमतुलं तत्र सातं विशेषादत्राऽमुत्र प्रदिशति सुखं प्राणिनां जैनधर्मः / / 128 / / व्याख्या - श्रीजिनमतरता श्रियायुतं जिनमतं श्रीजिनमतं विश्वविख्यातः श्रीजैनधर्मः

Page Navigation
1 ... 96 97 98 99 100 101 102