Book Title: Shildutam
Author(s): Charitrasundargani, Tattvaprabhvijay
Publisher: Jinprabhsuri Jain Granthmala

Previous | Next

Page 89
________________ शीलदूतम् (स्थुलभद्र चरित्रम्) 82 प्रवर्तमानं चातुर्मास्यं चतुर्णां वार्षिकमासानां समाहारः चतुर्मासी तस्याः कर्म चातुर्मास्यम् ‘पतिराजान्त० [7-1-76]' इति ट्यण, चतुर्पु वार्षिकमासेषु विहितं कर्मेत्यर्थः सुखेन अनायासेन पूर्णम् सकलम् समजनि संजातम्, काचित् अज्ञाताऽपि शीलहानिः ब्रह्मचर्यभ्रंशः न समभवत् संजातः इति अहो ! आश्चर्यम् / अथ अतः परम् कर्मनाशे कर्मक्षये निजगुरोः स्वगुरोः पादान् चरणान् वन्दितुं प्रणन्तुं यायाम् गच्छेयम् / (यदि च तवापि मया सह गुरुवन्दनार्थमीहाभवेत् तन्न युक्तम् इत्याह) - क्रूरः कठोरः कृतान्तः साधुसिद्धान्तः तस्मिन् अपि गुरुपादवन्दनकर्मण्यपि नौ आवयोः संगमम् सहगमनम् न सहते न मृष्यति / / गमनकाले धर्मोपदेशं करोति - धर्म तावद् भजतु भवती वीतरागप्रणीतं, दानं शीलं तप इह शुभो भाव एवंप्रकारम् / गन्तव्यं वै सुतनु ? मयका प्रावृषोऽहानि नीत्वा, दिक्संसक्तप्रविरलघनव्यस्तसूर्यातपानि / / 114 / / व्याख्या - भवती कोशा तावत् दीक्षायाः पूर्वं वीतरागप्रणीतम् वीतः अपगतः रागो विषयासक्तिः यस्य स वीतरागः जिनेश्वरः तीर्थङ्करः तेन प्रणीतम् समुपदिष्टम् दानं सत्पात्रे अशन-पान-खादिम-स्वादिम-वस्त्र-पात्रादेः अथवा सत्कार्ये द्रव्यादेः वितरणं पञ्चप्रकारकमभयादिदानं, शीलं ब्रह्मचर्य अष्टादशसहस्रभेदवत् मैथुनत्यागरूपं तपः द्वादशभेदरूपं पञ्चाशद्भेदरूपं वा तपः कायिक-वाचिक-मानसिक क्लेशसाध्यमिति यावत् शुभः भावः उत्तमः कल्याणवान् भावः आशय श्च एवं प्रकारकम् इत्थं रूपं धर्म सुकृतम् इह अत्रैव स्थिता भजतु शीलयतु / हे सुतनु.! सुन्दरशरीरे ! सुकृशे ! वा मयका स्थूलभद्रेण दिक्संसक्तप्रविरलघनव्यस्तसूर्यातपानि

Loading...

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102