Book Title: Shildutam Author(s): Charitrasundargani, Tattvaprabhvijay Publisher: Jinprabhsuri Jain GranthmalaPage 71
________________ शीलदूतम् (स्थुलभद्र चरित्रम्) 64 जितः यस्माद् कन्दर्पाद् हेतोः संज्ञाहीनौ अचेतनौ रसकुरुबको रसः पारदः कुरुबकः पीतझिण्टी समाख्यः वृक्षविशेष श्च अपि किमुतसचेतनः सरागौ साभिलाषौ स्तः भवतः अहो ! इत्याश्चर्यम्, एकः रसः मण्डितायाः भूषितायाः नार्याः स्त्रियाः दर्शनम् अवलोकनम् इच्छति कामयते, अन्यः कुरुबकः दोहदच्छद्मना गर्भिण्यभिलाषव्याजेन अस्याः नार्या वदनमदिरां मुखस्थितां सुराम् वाञ्छति इच्छति | पति इच्छति / पुनरपि स्वस्य नीरागतामेव प्रकटयति . नीरागं मे समजनि मनो ज्ञाततत्त्वस्वरूपं, तेनेदानीं च विषयरसो बाधते कुत्रचिन्माम् / . पश्याम्येनामपि वनसमां चित्रशालां खलूच्चैर्यामध्यास्ते दिवसविगमे नीलकण्ठः सुहृद् वः / / 86 / / व्याख्या - ज्ञाततत्त्वस्वरूपम् ज्ञातं विदितम् तत्त्वस्य तत् तद्विषययाथार्थ्यस्य स्वरूपं येन तादृशम् मे मम मनः चित्तं समजनि सम्पन्नम्, तेन कारणेन इदानीम् सम्प्रति कुत्रचिद् कस्मिन्नपि विषये विषयरसः विषयेषु रागः मां स्थूलभद्रं न बाधते नाकर्षति / एनाम् अग्रे स्थिताम् चित्रशालाम् चित्राम् आश्चर्यजनिकां नानाविधचित्रादिभिरलङ्कृतां वा शालां गृहम् वनसमाम् अरण्यसदृशीं पश्यामि दृष्ट्वाऽवधारयामि, यां चित्रशालाम् वः युष्माकं सुहृत् प्रियः नीलकण्ठः मयूरः दिवसविगमे दिनान्ते सायङ्काले उच्चैः उपरिभागे अध्यास्ते अधितिष्ठति / शरीरस्य यौवना पगमे निःश्रीकताकथनेनानित्यतां प्रकटयति यत्तारुण्ये सति वपुरहो ! विभ्रमं भूरि दत्ते, पुष्टं मुग्धे ! सरसमधुराहारयोगेण शश्वत् /Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102