Book Title: Shildutam
Author(s): Charitrasundargani, Tattvaprabhvijay
Publisher: Jinprabhsuri Jain Granthmala

View full book text
Previous | Next

Page 69
________________ शीलदूतम् (स्थुलभद्र चरित्रम्) व्याख्या - निर्यद्वाष्पं निर्यत् निर्गच्छद् वाष्पं नेत्रसलिलं यत्र तत् यथा स्यात् तथा इति उक्तप्रकारेण वचः वचनं प्रोच्य प्रकर्षणोक्त्वा स्थितायाम् तूष्णी भूतायां तस्यां कोशायाम् सः श्री स्थूलभद्रः अवोचत् अकथयत्, किं तद् इत्याह - हे तन्वि ! दुर्बले ! कृशे ! वा अहम् स्थूलभद्रः अमलम् निर्मलम् जैनधर्म जयन्ति रागद्वेषादीन् इति जिनाः तीर्थङ्कराः तेषाम् धर्मम् आचारम् अभजम् आश्रयम् मम सः प्रसिद्धः स्वर्गः देवलोकः अपिं अस्मात् जैनधर्मापेक्षया न मतः नेष्टः, यत्र स्वर्गे हस्तप्राप्यस्तबकनमितः हस्तप्राप्यैः करणैव लभ्यैः स्तबकैः पुष्पफलवृन्तैः नमितः नम्रीभूतः बालमन्दारवृक्षः बालोऽल्पवया मन्दारवृक्षः कल्पवृक्षः चिन्तितम् अभिलषितं सकलं वस्तु दत्ते समर्पयति / गुरुपदेशस्मरणादपि नाहं तव वंचोऽनुसरिष्यामीत्याह (युग्मेन). कृत्याकृत्यं गणयति भवान् हन्त ! येषां कृते नो, दृष्ट्वा हृष्यत्यनुदिनमलं खिद्यते यानऽदृष्ट्वा / प्रान्तं प्राप्तं स्वजननिचयास्तेऽप्यहो ! सत्सरोवद्, न ध्यास्यन्ति व्यपगतशुचस्त्वामपि प्रेक्ष्य हंसाः / / 83 / / निःसङ्गानां गुणफणभृतां यो मया श्रीगुरूणामेवं मुग्धे ! भवभयहरोऽश्राविपुण्योपदेशः / हारेणेव द्युतिततिभृताऽप्यत्र शश्वद् मनोऽन्तः, प्रेक्ष्योपान्तस्फुरिततडितं त्वां तमेव स्मरामि / / 84 / / (युग्मम्) व्याख्या - __ भवान् स्थूलभद्रः येषां स्वजननिचयानां कृते कृत्याकृत्य कर्तव्याकर्तव्यं नो नैव गणयति विचारयति हन्त ! इति खेदः, यान् स्वजननिचयान् दृष्टवा अवलोक्य अनुदिनं सर्वदा दृष्यति प्रसीदति, यान् अदृष्ट्वा

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102