Book Title: Shildutam
Author(s): Charitrasundargani, Tattvaprabhvijay
Publisher: Jinprabhsuri Jain Granthmala
View full book text
________________ 39 / शीलदूतम् (स्थुलभद्र चरित्रम्) महामात्यमुद्राम् महामात्यस्य प्रधानमन्त्रिणः मुद्रां चिह्नस्वरूपां मुद्रिकाम् अङ्गीकृत्य स्वीकृत्य नन्दनामानम् नन्दाख्यम् एनम् पूर्वचर्चितं निजपतिम स्वस्याधीश्वरं सान्द्रानन्दं सान्द्रः गाढः आनन्दः प्रमोदो यस्य तादृशं कुरु विधेहि / हे शत्रुतृण्यावलीनां हुतवह ! तृणानां समूहः, तृण्या शत्रवः तृण्या इवेति शत्रुतृण्या तासाम् आवलिः समूहः, तासां कृते हुतवहः वह्निः इव तदामन्त्रणम्, तव भवतः मुखे आनने जनकवत् तव पितृवत् अत्यादित्यम् आदित्यमतिक्रान्तम् इति तादृशम् संभृतम् पुजीभूतम् तत् प्रसिद्धं तेजः प्रतापः भूयः पुनरपि भूर्यात् धृतं भूयात् / धारणार्थकस्य भुंग्क सप्तम्यां रूपम् भूर्यादिति / अथ पूर्वं भोजनाय प्रार्थयते - क्षामं कामं तव वपुरभूत् तत्र तीनै स्तपोभिभक्त्या क्लृप्तं प्रियतम ! मया भोजनं तत् कुरु प्राक् / दक्षा नाट्ये जितसुरवधूनर्तकीमर्दलानां, पश्चादद्रिग्रहणगुरुभिर्गर्जितैर्नर्तयेथाः / / 48 / / व्याख्या - हे प्रियतम ! तत्र गुरुसमीपे तीव्रः अतिकठोरैः तपोभिः कायक्लेशादिनियमैः तव भवतः वपुः शरीरम् कामम् अत्यन्तम् क्षामम् कृशम् अभूत्, तत् तस्मात् * प्राक् पूर्वं मया तव प्रियया कोशया भक्त्या श्रद्धया क्लृप्तं सम्पादितम् भोजनम् अशनम् कुरु विधेहि; पश्चात् भोजनान्तरम् मर्दलानाम् मृदङ्गानाम् अद्रिग्रहणगुरुभिः अद्रेः क्रीडापर्वतगुहायाः ग्रहणेन स्वान्तः पूरणेन गुरुभिः वृद्धिं गतैः गर्जितैः शब्दैः, नाट्ये नट-क्रियायाम् दक्षाः पट्वीः जितसुरवधूः जिताः रूपादिभिरधः कृताः सुरवध्वः देववनिताः याभिः ताः नर्तकीः नर्तनशिल्पिकाः नर्तयेथाः नर्तनाय प्रेरयेथाः |

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102