Book Title: Shildutam
Author(s): Charitrasundargani, Tattvaprabhvijay
Publisher: Jinprabhsuri Jain Granthmala
View full book text
________________ 47 . शीलदूतम् (स्थुलभद्र चरित्रम्) क्रोध-लोभ-काम-मात्सर्यादयः दोषाः चित्तविकारा येषां तादृशाः श्रद्दधाना श्रृद्धावन्तो जनाः गार्हस्थ्ये गृहस्थजीवने सन्तः अपि भरतवत् सुप्रसिद्ध भरतवत् स्थिरगुण पदप्राप्तये स्थिराः निश्चला गुणाः शमादयो यत्र तादृशं यत्पदं कैवल्यं तस्य प्राप्तये लाभाय सङ्कल्पन्ते समर्था भवन्ति / सङ्गीतविनोदाय प्रेरयति - क्रीडाशैलं प्रिय ! भज निजं तं विनोदाय यस्मिन्, शब्दायन्ते मधुरमनिशं कीचका वायुयोगात् / नादज्ञस्याऽलमिव तव सत्किन्नरीगीतनृत्यैः, सङ्गीतार्थो ननु पशुपते स्तत्र भावी समग्रः / / 60 / / व्याख्या - ___ हे प्रिय ! तं प्रसिद्धं निजं स्वीयं क्रीडाशैलं क्रीडार्थं निर्मितं पर्वतं विनोदाय आनन्दाय भज आश्रय, यस्मिन् पर्वते कीचकाः सच्छिद्रवंशाः वायुयोगात् अनलस्य छिद्रे प्रवेशात् अनिशं सर्वदा मधुरं प्रियं यथा स्यात् तथा शब्दायन्ते शब्दं कुर्वन्ति, तत्र तस्मिन् पर्वते सत्किन्नरीगीतनृत्यैः सतीनां सुन्दरीणां किम्पुरुषः स्त्रीणां गीतनृत्यैः गीतेन सह नर्त्तनैः पशुपतेः शिवस्य इव यथा नादज्ञस्य नादविषयविशेषज्ञस्य तव भवतः समग्रः सर्वाङ्गपूर्णः सङ्गीतार्थः तौर्यत्रिकप्रयोजनम् अलं कात्स्न्येन भावी भविष्यति ननु निश्चयेन / पूर्वोक्तं क्रीडाशैलं पुनर्विशिनष्टिः - हित्वा स्वाद्रिं जिनपतिमहाचैत्यपूते प्रभूते, स्त्रीभिः सार्धं विबुधनिचया यत्र खेलन्ति नाथ ? / तिर्यग्व्याप्यञ्जनगिरिरिवाभ्रं गतो भ्राजते यः, श्यामः पादो बलिनियमनाऽभ्युद्यतस्येव विष्णोः / / 61 / /

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102