Book Title: Shildutam
Author(s): Charitrasundargani, Tattvaprabhvijay
Publisher: Jinprabhsuri Jain Granthmala
View full book text
________________ शीलदूतम् (स्थुलभद्र चरित्रम्) व्याख्या - ये अनाख्येयनामानः सचिवसुहृदः सचिवस्य मन्त्रिणः (तव पितुः) सुहृदः मित्राणि - हितचिन्तकाः असौ स्थूलभद्रः इदं सम्प्रति तस्य पित्रा अधिष्ठीयमानं निजपितृपदं निजस्य पितुः शकटालमन्त्रिणः पदम् स्थानम् आसाद्य प्राप्य नः अस्मान् नूनं निश्चितं पालयिष्यति रक्षिष्यति इति एवं चित्ते स्वहृदये विचार्य निश्चित्य तस्थुः तव पितुः हितचिन्तने एव. स्थिता बभुवः, भवति त्वयि दीक्षां चारित्रं प्राप्ते याते सति तान् सचिवसुहृदः अमित्राः शत्रवः (तव पितृवैरिणः) आक्रमिष्यन्ति अभिभविष्यन्ति बत ! इति खेद, एतच्चार्थान्तरन्यासालकारेण समर्थयति - वा अथवा निष्फलारम्भयत्नाः निष्फलः परिणामे विपरीतः आरम्भस्य क्रियायाः यत्नः येषां तादृशाः के . जनाः परिभवपदं परिभवस्य परकृतानिष्टस्य पदं स्थानं न स्युः न भवेयुः, अपि तु भवेयुरेवेति काकुः / मुक्तये व्रतमेव न कारणं, व्रतिनोऽपि पतन्ति गृहस्था अपि . मुच्यन्ते इत्याह - मा जानीष्व त्वमिति मतिमन् ! यद् व्रतेनैव मुक्तिलेभे श्वभ्रं व्रतमपि चिरं कण्डरीकः प्रपाल्य / गार्हस्थ्येऽपि प्रिय ! भरतवद्वीतरागादिदोषाः, संकल्पन्ते स्थिरगुणपदप्राप्तये श्रद्दधानाः / / 59 / / व्याख्या - हे मतिमन् ? बुद्धिमन् ! त्वम् स्थूलभद्रः इति वक्ष्य माणं मा नहि जानीष्व अवधारय यद् व्रतेन मुनिकृत नियमेन एव केवलं मुक्तिः मोक्षः भवति इति शेषः (यतः) कण्डरीकः एतन्नामा मुनिः चिरं बहुकालं व्रतं मुनिनियमं प्रपाल्य अनुष्ठाय अपि श्वभ्रं नरकं लेभे प्राप्तवान्, (तथा) हे प्रिय ! वीतरागादिदोषाः वीता अपगताः रागादयः आदौ येषां ते राग-द्वेष

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102