Book Title: Shildutam
Author(s): Charitrasundargani, Tattvaprabhvijay
Publisher: Jinprabhsuri Jain Granthmala

View full book text
Previous | Next

Page 59
________________ शीलदूतम् (स्थुलभद्र चरित्रम्) व्याख्या - हे नाथ ! असमाम् नास्ति समा तुल्या श्री यस्याः ताम् अद्वितीयाम् तां प्रसिद्धाम् स्वश्रियम् स्वसम्पदम् दर्शयन् प्रकृटीकुर्वन्, क्रीडाशैले पितृसम्बन्धिनि लीलापर्वते कतिचित् गणितानि दिनानि दिवसान् नीत्वा अतिवाह्य पुनरपि भूयोऽपि स्वां स्वकीयां पुरम् नगरीम् पाटलिपुत्रम् आगच्छेः परावर्त्तथाः, यत्र पुरि द्यौः आकाशः अभ्राप्तैः मेघपर्यन्तं गतैः बहुलैंः घनीभूतैः धूपधूमैः धूपार्थं निमित्तै बूं मैः कामिनी काचिद्वनिता मुक्ताजालग्रथितम् मौक्तिकसमूहगुम्फितम् अलकं केशपाशम् इव यथा अभ्रवृन्दम् मेघसमूह सदा वर्षातिरिक्तेऽपि सर्वस्मिन् समये वहति धारयति / / / पुरी विशिनष्टि - स्निग्धच्छायं बहुलविमलच्छायया शालमाना, नित्यामोदाः प्रविततमुदं भूरिवित्ता: सुवित्तम् / रत्नज्योति विधुततमसो नाथ ! निर्धूतपापं, प्रासादास्त्वां तुलयितुमलं यत्र तैस्तै विशेषैः / / 68 / / . व्याख्या - हे नाथ ! स्वामिन् ! यत्र पाटलिपुत्रनगर्यां बहुलविमलच्छायया बहुलया प्रभूतया विमलया निर्मलया छायया कान्त्या शालमानाः शोभमानाः, नित्यामोदाः नित्यं प्रतिदिनम् आमोदः उत्सवानन्दः येषु ते, भूरिवित्ताः भूरि बहुतरं वित्तं धनं येषु ते, रत्नज्योतिर्विद्युततमसः रत्नानां मणीनां ज्योतिर्भिः प्रकाशैः विधुतं दूरीकृतं तमः अन्धकारो यैस्ते, प्रासादाः सौधाः, स्निग्धच्छायं स्निग्धा मनोहरा छाया कान्ति र्यस्य तम्, प्रविततमुदं प्रवितता सुविस्तृता मुद् हर्षो यस्य तम्, सुवित्तम् सुष्ठु शोभनं वित्त धनं यस्य तम्, निर्धूतपापं निर्धूतं निःशेषेण दूरीभूतं. पापं कल्मषं यस्य तं त्वां भवन्तं तैस्तैः पूर्वोक्तैः विशेषैः व्यावर्तकगुणैः तुलयितुं समतां कर्तुम् अलं समर्थाः सन्ति /

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102