Book Title: Shildutam
Author(s): Charitrasundargani, Tattvaprabhvijay
Publisher: Jinprabhsuri Jain Granthmala

Previous | Next

Page 62
________________ 55 - शीलदूतम् (स्थुलभद्र चरित्रम्) भूयः पुरीमेव वर्णयति - वेणीदण्डो जयति भुजगान् मध्यदेशो भृगेन्द्रान् यासामास्यं प्रिय ! परिभवत्युच्चकैश्चन्द्रबिम्बम् / चैत्ये नृत्यन्त्यतुलमसकृद् यत्र वाराङ्गनास्तास्त्वद्गम्भीरध्वनिषु शनकैः पुष्करेष्वाहतेषु / / 72 / / व्याख्या - हे प्रिय ! यासाम् वाराङ्गनानाम् वेणीदण्डः वेणी केशजूटिका एव दण्डः दण्डाकारं लम्बायमाना केशजूटिकेति यावत् भुजगान् सर्पान् जयति परिभवति यथा सर्पा जनान् भीषयन्ति तथैव ततोऽप्यधिकं वा वेश्यानां वेणीदण्डं दृष्ट्वा जनाः कामभीता भवन्तीति आकारतोऽपि साम्यात् सर्पजयिन स्ते कथ्यन्ते, मध्यदेशः कटिप्रदेशः मृगेन्द्रान् सिंहान् जयति, सिंहाः कटिप्रदेशे क्षीणा भवन्ति ततोऽप्यधिकं क्षीणकट्यस्ता इति भावः, आस्यं मुखं चन्द्रबिम्बम् शशिमण्डलम् उच्चकैः अत्यन्तम् परिभवति जयति ताः पूर्वोक्तरूपाः वाराङ्गना वेशयोषितः यत्र पाटलिपुत्रे त्वद्गम्भीरध्वनिषु तवेव गम्भीरः ध्वनिः येषां तादृशेषु पुष्करेषु मृदङ्गेषु शनकैः मन्दम् आहतेषु ताडितेषु चैत्ये देवमन्दिरे असकृत् वारंवारम् अतुलम् अनुपमं यथा स्यात् तथा नृत्यन्ति / नर्तनं कुर्वन्ति / नगर्या अभिसारिका वृत्तान्तं सूचयति - मालास्त्रस्तै विविधकुसुमैः कुङ्कुमाक्तांहिचिह्नस्ताम्बूलेन क्षितितलगतेनार्द्धजग्धेन यत्र / हेमाम्भोजैः श्रवणपतितै भूषितैर्भूरिवासैनैशो मार्गः सवितुरुदये सूच्यते कामिनीनाम् / / 73 / / .

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102