Book Title: Shildutam
Author(s): Charitrasundargani, Tattvaprabhvijay
Publisher: Jinprabhsuri Jain Granthmala

View full book text
Previous | Next

Page 61
________________ शीलदूतम् (स्थुलभद्र चरित्रम्) यद्यपि सूर्यस्य हयाः हरितवर्णाः सन्तीति पुराण प्रसिद्धिः तथापीह तेषां न वर्णेन सादृश्यमपि तु आकार महत्त्वादिनेति विज्ञेयम्], शृङ्गोतुङ्गा शृङ्गवत् पर्वत शिखरवत् उत्तुङ्गा उन्नताः (शृङ्गं तु कूटं शिखरम्०' अभि० 498) गजेन्द्राः महागजाः ललितगतयः सलील गमनाः दानवन्तः मदशालिनः (सन्ति) अखिलयुवतयः सर्वास्तरुण्यः लीलावत्यः कामक्रीडाचतुराः (सन्ति) वीरोत्तंसाः वीरा उत्तंसा इव भूषणानीव इति वीरोत्तंसाः श्रेष्ठवीरा चन्द्रहासव्रणाकैः चन्द्रहासेन खड्गेन ये व्रणाः आघाताः तेषा मकैः चिह्नभूतैः किणैः प्रत्यादिष्टाभरणरुचयः प्रत्यादिष्टा प्रत्याख्याता आभरणानां भूषणानां रुचयः कान्तयो यै स्तथा भूताः (सन्ति) / तामेव पुरीं पुनरपि विशिनष्टि - स्नेहादन्यद् न भवति परं बन्धनं यत्र किञ्चिचिन्ता काचिन भवति परा यत्र धर्मं विहाय / कश्चिद् यस्मिन् न भवति परो राजहंसात् सरोगो वित्तेशानां न च खलु वयो यौवनादन्यदस्ति / / 71 / / व्याख्या - यत्र पाटलिपुत्रे स्नेहाद् परस्परं प्रेम्णः अन्यद् भिन्नं परं दृढं बन्धनं गतिनिवारकं न भवति नास्ति, (यत्र) धर्मं अभ्युदयनिःश्रेयससाधनं सुकृतं विहाय परित्यज्य परा अन्या चिन्ता न भवति, यस्मिन् पाटलिपुत्रे राजहंसात् मरालात् परः अन्यः सरोगः रोगेण सहितः न भवति राजहंस एव सरोग शब्देनोच्यते नान्यः तस्य सरसि गच्छतीत्यर्थक सरोगशब्द वाच्यत्वात् / अन्ये केचन सरोगशब्देन रोगसहितार्थवाचकेन नाभिधीयन्ते / श्लेषोऽलङ्कारः / (यत्र) वित्तेशानाम् धनिकानां जनानां च यौवनाद् तारुण्याद् अन्यत् परं वार्द्धक्यम् वयः शरीरावस्था न अस्ति भवति / धनिकाः सर्वे रसायनाधुपयोगेन यौवनमेवानुभवन्ति न वार्द्धक्यमिति भावः /

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102