Book Title: Shildutam
Author(s): Charitrasundargani, Tattvaprabhvijay
Publisher: Jinprabhsuri Jain Granthmala
View full book text
________________ 43 . शीलदूतम् (स्थुलभद्र चरित्रम्) कुतो हेतोः उपेक्षसे अवधीरयसि ? गेहिधर्मे गेहमस्य विद्यते इति गेही गृहस्थः तस्य धर्मे कर्तव्ये बन्धुरक्षादिरूपे (स्थितः) अमले निष्कलंके पात्रे दानोद्देश्ये सततं प्रतिदिनं दत्तैः वितीर्णैः स्ववित्तैः स्वोपार्जितद्रव्यैः अन्तः आत्मनि शुद्धः निर्मलः अपि त्वम वर्णमात्रेण शरीररूपमात्रेण कृष्णः मलिनः भविता स्थाता / स्वकीयं पूर्वभोगानुभवं स्मारयन्ती गङ्गोक्तिव्याजेन स्वाभिप्रायमाह रन्त्वाऽऽवाभ्यां चिरमुपवने जातगात्रश्रमाभ्यां, सस्ने यत्र प्रिय ! कलजला स्वधुंनी भाति सेयम् / मुक्त्वा मां.किं भ्रमसि भुवि येतीव फेनैर्हसन्ती, शम्भोः केशग्रहणमकरोदिन्दुलग्नोर्मिहस्ता / / 54 / / व्याख्या - . हे प्रिय ! चिरम् बहुकालपर्यन्तम् उपवने क्रीडोद्याने रन्त्वा सुरतादिक्रीडामनुभूय जातगात्रश्रमाभ्याम् जातः उत्पन्नः गात्राणां श्रमः शैथिल्यं ययो स्तथाभूताभ्याम् आवाभ्याम् मया त्वया च यत्र यस्यां गङ्गायां सस्ने स्नानं विहितं, कलजला कलम् अव्यक्तमधुरशब्दयुक्तं जलं तोयं यस्याः तादृशी सा इयम् प्रत्यक्षदृश्यमाना स्वर्धनी देवनदी गङ्गा भाति शोभते / या गङ्गा ‘मां गङ्गां मुक्त्वा विहाय भुवि पृथिव्याम् इतस्ततः किं भ्रमसि कुतश्चरसि' इति एवम् (सूचनाय) फेनैः प्रसिद्धैः श्वेतद्रव्यैः (कृत्वा) हसन्ती उपहासं प्रकटयन्ती इव इन्दुलग्नोर्मिहस्ता इन्दुलग्नाः चन्द्रपर्यन्तं प्रसृताः ऊर्मयः तरङ्गा एव हस्तौ करौ यस्याः तादृशी सती शम्भोः शिवस्य केशग्रहणम् कचाकर्षणम् अकरोत् पूर्वं कृतवती। गङ्गाविहारार्थं प्ररोचयति - अस्यां शस्याशय ! यदि भवान् नीरकेलिं प्रकुर्याद, युक्तस्ताभिः प्रिय ! सह मया मद्वयस्याभिराभिः / .

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102