Book Title: Shildutam
Author(s): Charitrasundargani, Tattvaprabhvijay
Publisher: Jinprabhsuri Jain Granthmala

View full book text
Previous | Next

Page 45
________________ 38 शीलदूतम् (स्थुलभद्र चरित्रम्) परित्यक्तुं समर्थः क्षमः स्यात् / सम्प्रति स्वाभिप्रायं निगमयति - सूद तत्प्रिय ! मम वचो मानयित्वा गृहे स्वे, तारुण्यं त्वं नय विनयतः प्रार्थ्यमानः प्रियाभिः / वर्षाकाले तव विहरतः शर्मकर्ता वनान्तः, शीतो वायुः परिणमयिता काननोदुम्बराणाम् / / 46 / / व्याख्या - हे प्रिय ! तत् तस्मात् पूर्वोक्तकारणसमुदयात् सूदर्कं शोभनः उदर्कः उत्तरकालफलं यत्र (आयति स्तूत्तरः कालः, उदर्क स्तद्भवं फलम्' इति अभिधान० 2.76) तादृशं मम कोशाया घचः वचनं मानयित्वा स्वीकृत्य, विनयतः प्रश्रयेण प्रयाभिः कान्ताभिः प्रार्थ्यमानः याच्यमानः भोगार्थं प्रवर्त्यमानः त्वं स्थूलभद्रः स्वे निजे गेहे गृहे तारुण्यं यौवनावस्थां नय अतिवाहय / वर्षाकाले प्रावृषि वनान्तः काननमध्ये विहरतः स्वैर विहारं कुर्वतः तव भवतः काननोदुम्बराणाम् वनान्तःस्थोदुम्बरफलानां परिणमयिता परिपाचयिता शीतः शीतलः वायु वातः शर्म सुखं कर्ता विधाता / पुनर्मन्त्रिपदस्वीकारायैव प्रेरयति - अङ्गीकृत्य प्रियतम ! महामात्यमुद्रां सुभद्रां, सान्द्रानन्दं कुरु निजपति नन्दनामानमेनम् / भूर्याद् भूयस्तव जनकवत् शत्रुतृण्यावलीना मत्यादित्यं हुतवह ! मुखे संभृतं तद्धि तेजः / / 47 / / व्याख्या - हे प्रियतम ! प्रियेषु मध्येऽत्यन्तं प्रिय ! सुभद्रां सुमङ्गलमयीम्

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102