Book Title: Shildutam
Author(s): Charitrasundargani, Tattvaprabhvijay
Publisher: Jinprabhsuri Jain Granthmala

View full book text
Previous | Next

Page 43
________________ शीलदूतम् (स्थुलभद्र चरित्रम्) वा / अथ नन्दराजानुरोधनापि त्वया मन्त्रिपदं स्वीकार्यमित्याह पूर्वैः पूर्वे मम खलु समे मानिता ह्यस्य पूर्वं, तन्मान्योऽसौ सचिवतनयो मे जिघृक्षुस्तपस्याभ् / मत्वा नन्दो नृप इति चिरं त्वाऽनुनेतुं प्रमोदात्, प्रत्यावत्तस्त्वयि कररुधि स्यादनल्पाभ्यसूयः / / 43 / / व्याख्या - हि यतः पूर्वम् पूर्वस्मिन् समये मम नन्दस्य पूर्वैः पूर्व पुरुषैः अस्य स्थूलभद्रस्य समे सर्वे पूर्वे पूर्वपुरुषाः पित्रादयः मानिताः पूजिताः तत् तस्मात् असौ सम्प्रति विप्रकृष्टः सचिवतनयः मन्त्रिपुत्रः स्थूलभद्रः तपस्याम् तपः जिघृक्षुः स्वीकर्तुमिच्छुः मान्यः अनुनेयः इति पूर्वक्तं मत्वा विचार्य नन्दः एतन्नामा नृपः पाटलिपुत्राधीश्वरः प्रमोदात् त्वामिहागतं श्रुत्वा हर्षात् त्वा त्वाम् अनुनेतुं अनुकूलयितुं प्रत्यावृत्तः पुनरपि प्रवृत्तः, त्वयि भवति कररुधि अनुनयार्थं प्रवर्तितं करं हस्तं रुणद्धि वारयति इति तादृशे जाते सति अनल्पाभ्यसूयः अनल्पा समधिकां अभ्यसूया ईर्ष्या यस्य तादृशः स्यात् भवेत् / न केवलं वयमेवैवं कथयामः मान्या गङ्गापि ते दीक्षां वारयतीत्याह - दीक्षामेषा तव सुरनदी वारयत्यूमिरावैः, पश्य स्वामिन् ! बहुपरिचिता प्रेयसीवेयमुच्चैः / अस्याः शस्याशयरयकृतान्यर्हसि त्वं न विद्वन् !, मोघीकर्तुं चटुलशफरोद्वर्त्तनप्रेक्षितानि / / 44 / / .

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102