Book Title: Shildutam
Author(s): Charitrasundargani, Tattvaprabhvijay
Publisher: Jinprabhsuri Jain Granthmala

Previous | Next

Page 41
________________ शीलदूतम् (स्थुलभद्र चरित्रम्) - 34 कुरु विहि / हि यतः यस्मिन् व्यापारे सति विद्यमाने समुदः सानन्दाः पौरनार्यः नागरवनिताः त्वयि भवति स्नेहात् प्रेम्णः कारणात् अतिवर्यान् अत्यादरपूर्णान् मधुकरश्रेणिदीर्घान् मधुकरश्रेणिवत् (अतिकृष्णवर्णत्वादायतत्वाच्च) भ्रमरपङ्क्तिवत् दोर्धान् आयतान् कटाक्षान् अपाङ्गान् आमोक्ष्यन्ते पातयिष्यन्ति / अथास्य सुखमाशास्ते - पायं पायं शुचि सुललितं बन्धुवाक्यं पयो वा, स्वादं स्वादं सरसमधुराहारमेयाः प्रमोदम् / स्वामिन् ! नित्यं शिव इव मया सस्पृहं वीक्ष्यमाणः, . शान्तोद्वेगः स्तिमितनयनं दृष्टभक्ति भवान्या / / 40 / / व्याख्या - हे स्वामिन् ! शुचि पवित्रमुज्ज्वलं वा सुललितम् सुन्दरं बन्धुवाक्यं सम्बन्धिजनवचनं वा अथवा पयः दुग्धं पायं-पायं श्रुत्वा-श्रुत्वा, पीत्वापीत्वा वा सरसमधुराहारम् सरसं सस्वादं मधुरं मिष्टं च आहारभोज्यवस्तु स्वाद-स्वादं रसयित्वा-रसयित्वा, भवान्या पार्वत्या शिवः शङ्कर इव यथा, मया कोशया सस्पृहं साभिलाषं स्तिमितनयनं स्तिमिते निश्चले नयने नेत्रे यत्र तादृशं च यथा स्यात् तथा नित्यं प्रतिदिनं वीक्ष्यमाणं अवलोक्यमानः, दृष्टभक्तिः दृष्टा प्रत्यक्षी कृता भक्तिः मम अनुरागो येन तथाभूतः शान्तोद्वेगः शान्तः अपगत उद्वेगः वैराग्यं यस्य तथाभूतः सन् प्रमोदम् सुखम् एयाः प्राप्नुयाः / त्वया दीक्षा त्याज्येत्याह - कार्या शधद् भृतिरिह मया कः पुरेत्युक्तिपूर्वं, पाणी प्रादात् प्रिय ! किल भवान् यत् पयो मत् सखीनाम् /

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102