Book Title: Shildutam
Author(s): Charitrasundargani, Tattvaprabhvijay
Publisher: Jinprabhsuri Jain Granthmala

Previous | Next

Page 40
________________ 33 . शीलदूतम् (स्थुलभद्र चरित्रम्) नाट्योत्सवः यत्र तादृशे [यद्यपि 'नाट्यस्थानं तु रङ्गः स्यात्' [अभिधान० 2. 196] इत्युक्ततया रङ्ग इत्यस्य नाट्यशाला इत्यर्थः करणीयः तथापि अत्र नित्य विशेषणेन रङ्ग पदस्य तत्रत्य क्रियायामेव प्रयोग इति विज्ञायैवं व्याख्यातम्] अत्र प्रकृते द्रङ्गे नगरे पाटलिपुत्रे, वासं स्थिति कुर्वन् विदधत् त्वं भवान् गाङ्गैः गङ्गासम्बन्धिभिः नीरैः जलैः अनिशम् सततम्.अमृतस्वादम् अमृतस्य पीयूषस्य स्वादम् रसम् आवेत्स्यसि ज्ञास्यसि, श्रुतिसुखकरैः कर्णानन्दावहैः गङ्गाघोषैः भागीरथीप्रवाहशब्दैः अन्वहम् अलि-अलि इति अन्वहम् वीप्सायामव्ययीभावः प्रतिदिनम् अब्दजानाम् अपोददति इति अब्दा मेघाः तेभ्यो जातानाम्, आमन्द्राणाम् ईषद् गम्भीराणाम् गर्जितानाम् गर्जनशब्दानाम्, अविकलं सम्पूर्णम् फलम् उपयोगं लप्स्यसे प्राप्स्यसि / यादृश आह्लादो मेघगर्जने भवति तादृशो गङ्गाप्रवाहघोषैरेव तव स्यादिति भावः / न केवलमत्र स्थितिरेव कार्या स्वकीय व्यापारोऽपि करणीय एवेत्याह - नो मुञ्चन्ति प्रिय ! निजकुलाचारभारं महान्तो, व्यापारं तत् कुरु गुरुममुं पूर्वजाचाररूपम् ! . स्नेहाद्यस्मिन् सति हि समुदः पौरनार्योऽतिवर्या नामोक्ष्यन्ते त्वयि मधुकर श्रेणिदीर्घान् कटाक्षान् / / 39 / / व्याख्या - __ हे प्रिय ! महान्तः मह्यन्ते लोकैः पूज्यन्ते इति महान्तः ('द्रुहि बृह० [उणा० 884] इति कर्तृ प्रत्ययेन महत् शब्दो व्युत्पादितः) निजकुलाचारभारं . निजकुलस्य स्ववं शस्य आचारः व्यापारः स एव भारः वहनीयः तं नो नैव मुञ्चन्ति परित्यजन्ति तत् तस्माद्धेतोः पूर्वजाचाररूपम् पूर्वजस्य पित्रादेः आचाररूपम् कर्तव्यरूपं अमुं पूर्वनिर्दिष्टं मन्त्रिपदस्वीकाररूपं व्यापार कार्य

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102