Book Title: Shildutam
Author(s): Charitrasundargani, Tattvaprabhvijay
Publisher: Jinprabhsuri Jain Granthmala

View full book text
Previous | Next

Page 38
________________ नतापादरा 31 . शीलदूतम् (स्थुलभद्र चरित्रम्) एतन्नामकं नृपतिं राजानम् अवधोत् जघान, अत्र प्रदेशविशेषे तस्य नन्दस्य राज्ञः नृपस्य सततफलदः सततं सर्वेषु कालेषु फलानि ददाति इति तादृशः आरामः वृक्षवाटिका अभूत् आसीत्, अत्र प्रदेश विशेषे तेन प्रसिद्धेन उदायिनृपोत्सादितराजपुत्रेण पापिना दुष्कृताचारिणा दम्भात् मुनिवेषधारणकपटात् उदायिप्रभुः प्रसिद्धः पाटलिपुत्रसंस्थापको राजाविशेषः हतः मारितः इति उक्तप्रकारवचनैः रमयति रञ्जयति / अथास्य प्ररोचनार्थं शरीरपरिपुष्ट्यै प्रेरयति - खिन्नोऽसि त्वं चिरविचरणाद् दृश्यतेऽनीदृशस्ते, देहस्तन्नो निजपरिजनेनाऽमुना जल्पसि त्वम् / हर्येष्वेषु प्रिय ! निवसनात् सज्जयास्मिंस्तनुं स्वां, नीत्वा खेदं ललितवनितापादरागाङ्कितेषु / / 36 / / व्याख्या - .. त्वं स्थूलभद्रः चिरविचरणात् बहुकालविहारात् खिन्नः क्षीणः असि, ते तव देहः शरीरम् अनीदृशः पूर्व सादृश्यरहितः दृश्यते अवलोक्यने, तत् तस्मात् त्वम् अमुना साक्षात् स्थितेन निजपरिजनेन अस्मत्प्रभृति सेवकवर्गेण सह नो नैव जल्पसि आलपसि / हे प्रिय ! स्नेहास्पद ! ललितवनितापादरङ्गाङ्कितेषु ललितानां सुन्दरीणां वनितानां स्त्रीणां पादरागैः .चरणालक्तकरसैः अङ्कितेषु चिह्नितेषु एषु पुरतः स्थितेषु हर्येषु प्रासादेषु निवसनात् स्थिति करणात् खेदं चिरविचरणपरिश्रमं नीत्वा दूरीकृत्य अस्मिन् समये स्वां निजां तनुं शरीरं सज्जय भोगयोग्यतामापादय | स्थाने खेदापनयनयोग्यता प्रदर्श्यते - द्रङ्गोत्सङ्गे सगरतनयाऽऽनीतवाहां वहन्ती, गङ्गामेतां सुभग ! मृगयालोलकल्लोलमालाम् / तेषु एषु परास्त्रीणां , तकरणात समये स्व

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102