Book Title: Shildutam
Author(s): Charitrasundargani, Tattvaprabhvijay
Publisher: Jinprabhsuri Jain Granthmala

View full book text
Previous | Next

Page 37
________________ शीलदूतम् (स्थुलभद्र चरित्रम्) यस्याऽग्रेऽहो ! विविधमणिभिः पूरितस्य क्षमायां, संलक्ष्यन्ते सलिलनिधयस्तोयमात्रावशेषाः / / 34 / / व्याख्या - हे स्वामिन् ? नाथ ! गङ्गोत्सङ्गे गङ्गायाः सुरनद्या उत्सङ्गे क्रोडे-समीपे सुविपुलम् अतिविस्तृतम् इदं प्रत्यक्षम् पाटलीपुत्रद्रङ्गं पाटलीपुत्रं नाम नगरम् ('नगरी पू: पुरी द्रङ्गः, पत्तनं पुटभेदनम्' इति अभिधान चिन्तामणो तिर्यक्काण्डे 4 / 991, पश्य अवलोकय, यत् नगरम् नृपतितिलक: नृपतिषु राजसु तिलक इव, राजश्रेष्ठ इत्यर्थः कोणिकः तन्नामा नृपतिः अस्थापयत् निर्मापयामास | विविधमणिभिः नानाप्रकाररत्नैः पूरितस्य भारितस्य यस्य पाटलिपुत्रनगरस्य अग्रे समक्षम्, सलिलनिधयः वारिधयः तोयमात्रावशेषाः तोयमानं केवलं जलमेव अवशेषः शिष्टं येषु तादृशाः, रत्नानि सर्वाणि पाटलिपुत्रे गतानि समुद्रेषु केवलं तोयमेवावशिष्यते इत्येवं रुपेणेत्यर्थः संलक्ष्यन्ते प्रतीयन्ते / बहुरत्नपूर्णमिदं नगरमिति भावः | पाटलिपुत्रनगरस्य पूर्ववृत्तान्तं पुरीवर्णनक्रमेण कथयति - आद्यं नन्दं नृपतिमवधीदत्र वैरोचनः प्रा - गत्रारामः सततफलदोऽत्राभवत् तस्य राज्ञः / अत्रोदायिप्रभुरपि हतः पापिना तेन दम्भादित्यागन्तून् रमयति जनो यत्र बन्धूनभिज्ञः / / 35 / / व्याख्या - यत्र पाटलीपुत्रे अभिज्ञः पुरातनेतिहासवेत्ता जनः लोकः आगन्तून् आगच्छति इत्यागन्तुः आङ् पूर्वाकाद् ‘गमेः कृसिकम्य [उणा० 773] तुन् प्रत्यये सति सिध्यति, अतिथिपर्याय श्चायमित्यतिथीनित्यर्थ, बन्धून् सम्बन्धिनः 'अत्र नगरे प्रदेशे वा प्राक् पूर्वं वैरोचनः विरोचनस्य पुत्रः आद्यं प्रथमं नन्दं

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102