Book Title: Shildutam
Author(s): Charitrasundargani, Tattvaprabhvijay
Publisher: Jinprabhsuri Jain Granthmala

Previous | Next

Page 16
________________ शीलदूतम् (स्थुलभद्र चरित्रम्) व्याख्या - .. स. पूर्वप्रकान्तः एषः श्रीस्थूलभद्राभिधो मुनिवरः गुरुवचनतः गुरोः स्थविरश्रीसम्भूतिविजयस्य वचनतः वाक्यात् गुरूपदेशादित्यर्थः; स्वैः स्वकीयैः पञ्चभिः पञ्च संख्याकैः मुष्टिभिः शिरसि शिरस्थितकेश विषये लोचं लुञ्चनं दीक्षापूर्वकालविधेयं कृत्वा सम्पाद्य, दीक्षां चारित्रं व्रतसंग्रहं 'दीक्षातु व्रतसंग्रहः इति हैमः' लात्वा आदाय शिक्षाम् कर्तव्यज्ञानं अवेत्य अधिगत्य, अथ तदनन्तरं यतिः यतते मोक्षाय, गच्छत्युपरमति सर्वसङ्गेभ्य इति वा यतिः मुमुक्षुः संयमी वा सः, पूर्वत्र पक्षे यतेः (यत धातोः) ‘पद पठ० [उणा० 607' इति इः, परत्र पक्षे यमः बाहुलकात् कर्तरि नाम्नि क्तिः, गुर्वादेशात् गुरोराज्ञया (चातुर्मास्याम्) तां पूर्वज्ञातां निजपुरीम् स्वनगरी पाटलीपुत्राभिधां आगमत् पुनरावृत्तः, या पुरी बाह्योद्यानस्थितहरशिरश्चन्द्रिका-धौतहा बाह्योद्याने पुराद् बहिः स्थिते उपवने, स्थितानि हरशिरश्चन्द्रिकावत् शिवललाटस्थितशशि क़ौमुदीवत् धौतानि उज्ज्वलानि हाणि धनिकगृहाणिहरंति मनांसि जनानाम् इति विग्रहे 'शिक्या स्याट्य [उणा० 364]' इति ये निपातनम्, 'हवृंतु धनिनां गृहम् इति हैमः' यस्यां तादृशी (अस्ति) / / . अथ श्रीस्थूलभद्रप्रव्रज्यानन्तरं कोशावृत्तान्तं संक्षेपेणाह - कोशा शस्यप्रकृतिरथ सा स्वप्रियं चाऽनुयान्ती, दध्यावेवं विविधवचनैरम्बया संनिषिद्धा / तिष्ठेत् का हा ! स्वगृह इह हि प्रोषिते प्राणनाथे ? न स्यादन्योऽप्यहमिव जनो यः पराधीनवृत्तिः / / 8 / / व्याख्या - .' अथ श्रीस्थूलभद्रप्रव्रज्यानन्तरम्, शस्यप्रकृतिः शस्या प्रशंसनीया प्रकृतिः स्वभावमर्यादा यस्याः तादृशी कोशा एतन्नाम्ना प्रसिद्धा पुष्पपुरीवारनारी

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102