Book Title: Shildutam
Author(s): Charitrasundargani, Tattvaprabhvijay
Publisher: Jinprabhsuri Jain Granthmala

View full book text
Previous | Next

Page 33
________________ शीलदूतम् (स्थुलभद्र चरित्रम्) ... यत्र क्रीडोद्याने शीतः शीतलस्स्पर्शवान् सुरभिः सुगन्धः संमतः अनुकूलः छाया-दानात् छाययाः कान्त्या दानात् वितरणात् क्षणपरिचितः किञ्चित् कालार्थं जातपरिचयः वायुः पवनः पुष्पलावीमुखानाम् पुष्पाणि लुनन्ति त्रोटयन्तीति पुष्पलाव्यो मालाकारपन्यः तासां मुखानाम् आननानां (सम्बधिनं) स्वेदं धर्मजलं हरति अपनयति / पुनरपि क्रीडाशैलस्थे क्रीडोद्याने रमणाय प्रेरयति - .. स्वामिन्नस्मिन् स्मरगृहसमे कानने तावकीने; कामक्रीडां विदधति समं निर्जराः सुन्दरीभिः / स्नेहस्निग्धस्त्वमिह रतिदैर्वीक्षितोऽपि प्रियाणां, लोलापागैर्यदि न रमसे लोचनै वञ्चितोऽसि / / 29 / / व्याख्या - ...हे स्वामिन् ! हे नाथ ! स्मरगृहसमे स्मरस्य कामदेवस्य गृहेण भवनेन समे तुल्ये तावकीने तव इदं तावकीनम् तस्मिन् अस्मिन् प्रत्यक्ष दृष्टे कानने क्रीडोद्याने निर्जराः देवाः (अपि) सुन्दरीभिः स्वप्रियाभिः समं सह कामक्रीडां कन्दर्पसम्बन्धिविहारं विदधति कुर्वन्ति / देवैरपि कामक्रीडार्थमिदमुपयुज्यत इत्यहोऽस्य रमणीयतेति भावः / इह उद्याने त्वम् भवान् स्नेहस्निग्धैः प्रीति भावा!ः रतिदैः रतिं श्रृङ्गाररसस्थायिभावं ददति उद्बोधयन्ति इति रतिदाः तथाभूतैः लोलापागैः लोलाश्चञ्चला अपाङ्गा दृक्कोणा येषु तादृशैः प्रियाणां स्निग्धानां स्त्रीणां लोचनैः नेत्रैः वीक्षितः अवलोकित अपि यदि चेत् न रमसे रतिक्रीडायां प्रवर्तसे (तर्हि) वञ्चितः फलशून्य असि भवसि / प्रियाणां स्निग्धा दृष्टि र्दुलभा तां प्राप्यापि यदि न सार्थयसि तर्हि तव पुंस्त्वमेव निष्फलमिति भावः |

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102