Book Title: Shildutam
Author(s): Charitrasundargani, Tattvaprabhvijay
Publisher: Jinprabhsuri Jain Granthmala
View full book text
________________ शीलदूतम् (स्थुलभद्र चरित्रम्) न केवलं प्रिंया एव त्वां प्रवर्तयन्ति, अपि तु जडा वृक्षा वल्यपि त्वां स्वोपभोगाय प्रेरयतित्याह - लोलच्छाखाशयविलसितैस्त्वामिवाकारयन्ती, भृङ्गालापैरिव तव तपः साम्प्रतं वारयन्ती / वृक्षालीयं कुसुमपुलकं दर्शयन्तीव पश्य, . स्त्रीणामाद्यं प्रणयि वचनं विभ्रमो हि प्रियेषु / / 30 / / / व्याख्या - - वृक्षाली वृक्षाणां तरूणाम्, आली पङ्क्तिः आलीवेत्युप मिति गर्भसमासः, लीलच्छाखाशयविलसितैः लोलन्त्यश्चञ्चलाः शाखा एव शया कराः तेषां विलसि तैः विभ्रमैः त्वाम् भवन्तं आकारयन्ती आह्ह्वयन्ती इव, भृङ्गालापैः भृङ्गाणां भ्रमराणाम् आलापैः शब्दैः साम्प्रतम् अस्मिन् समये तव भवतः तपः तपश्चर्यां वारयन्ती प्रतिषेधयन्ती इव, कुसुमपुलकं कुसुमानि पुष्पाण्येव पुलकं सात्विकविकारोत्पन्नरोमोद्गमं दर्शयन्ती त्वाम्प्रतिप्रकटयन्ती इव (स्थिता इति त्वं) पश्य अवलोकय / (किमनेनावलोकितेनेति चेदत्राह) हि यतः स्त्रीणां वनितानां विभ्रमः विलासः प्रियेषु इष्टेषु जनेषु विषये आद्यं प्रथमं प्रणयवचनं प्रेमालापः भवतीति शेषः / एवं बाह्यालापं विधाय साम्प्रतं स्वाभिप्रायं प्रकाशयति - हीनं दीनं सुभग ! विरहात् ते धुताऽऽहारनीरं, पश्येदं मे वपुरुपचितिं याति नान्यैः प्रयोगैः / जाने नाहं बहु निगदितुं त्वद्वियोगार्तिजातं, कार्यं येन त्यजति विधिना सत्वयैवोपपाद्यः / / 31 / /

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102