Book Title: Shildutam
Author(s): Charitrasundargani, Tattvaprabhvijay
Publisher: Jinprabhsuri Jain Granthmala

Previous | Next

Page 27
________________ शीलदूतम् (स्थुलभद्र चरित्रम्) व्याख्या - __ हे नाथ ! स्वामिन् ! अनिधनम् नास्ति निधनं विनाशः समाप्ति र्वा यस्य तादृशं कियताऽपि व्ययेन न क्षयणीयम्, सम्पूरिताशम् सम्पूरिताः सम्यक् सम्पादिताः आशाः अभिलाषाः येन तादृशम् इदं प्रत्यक्षवर्ति धनं वित्तम्, त्वयि भवति अतिस्नेहयुक्तम् अतिशयितेन स्नेहेन प्रेम्णा युक्तम्, सर्वम् अखिलम् एनम् पूर्वमपिचर्चितम् प्रत्यक्षतोऽभितो दृश्यमानम् निजपरिजनं स्वसेवकपरिवारम् च मा मुञ्च न परित्यज / उक्तमर्थं समर्थयितुमाह - हे प्रथितमहिमन् ! प्रथितो विख्यातो महिमा माहात्म्यं यस्य सः तदामन्त्रणम्, नीतिज्ञः सर्वविधलोकनयाभिज्ञः (सन्) अपि एतत् अग्रे कथ्यमानम् कथं कुतो हेतोः न वेत्सि न जानासि यत्, रिक्तः धनादिरहितः सर्वः जनः लघुः जनैरनायासेनोत्तोल्यः अनादरणीय इति यावत् भवति जायते, हि यतः पूर्णता वित्तादिभावत्वं गौरवाय अनुत्तोल्यतायै अनभिभवाय वा (भवति) तथा च धनहीनस्य कस्यापि गौरवं न भवतीति गौरव रक्षणाय धनत्यागो नोचित इति विशकलिताभिप्रायः / / न केवलं गृहे वास एवावश्यकोऽपि तु मन्त्रित्वाधिकार स्वीकारोऽपि पित्र्य इत्याह - व्यापार मा परिहर वर ! त्वं नृपश्रीशमं तं, प्राप्य क्लेशोपममिममहो ! संयमं मन्त्रिपुत्र ! / मुञ्चेच्चिन्तामणिमिह हि कः काचमादाय यस्मिन् ? सारङ्गास्ते जललवमुचः सूचयिष्यन्ति मार्गम् / / 22 / / व्याख्या - हे वर ! सर्वे वरणीय ! श्रेष्ठ ! मन्त्रिपुत्र ! मन्त्रिणः नन्दराजसचिवस्य शकटालस्य पुत्रः सुतः तदामन्त्रणम्, त्वम् भवान् इमम् प्रत्यक्षवर्त्तमानम् क्लेशोपमम् क्लिश्यते दूयते अस्मिन् इति क्लेशः कायमनः खेदः तेन

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102