Book Title: Shantinath Charita Part 02
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 10
________________ श्रीशान्तिनाथचरित्रे आपदेतविमित्तेनोपस्थिता मे सुदुःसहा । इति ज्ञात्वा यथायुक्तं विचारय कुरुष्व च ॥ १४ ॥ अभ्यधाच्च नृपो मन्विन् ! तुष्टोऽस्मि तव सर्वथा । परं कथय विज्ञातं कथमेतत्त्वया स्फुटम् ॥ १५ ॥ ततो नैमित्तिकपृच्छाप्रभृत्याख्याय सोऽवदत् । सुलभा देव ! संसारे विपदो विषयाशिनाम् ॥ १६ ॥ देवमानुषतिर्यकवकता एताश्चतुर्विधाः । धर्मस्यैव प्रभावन नश्यन्ति जगतीपते ! ॥ १७ ॥ राज्ये मन्त्रिपदे चैव निवेश्य स्वस्वनन्दनौ। तो तेपाते तपोऽत्युग्रं प्रतिपद्यानगारताम् ॥ १८ ॥ तन्मित्र ! मन्त्रिणा तेन यथाऽऽपल्लवितौजसा । आवामपि करिष्यावस्तथैव त्वं विषीद मा ॥ १८ ॥ मित्रानन्दोऽवदद् ब्रूहि कर्तव्यं हे वयस्य ! किम् । स ऊचेऽन्यत्र यास्यावो मुक्त्वा स्थानमदो निजम् ॥ २० ॥ तस्य चित्तपरीक्षार्थं पुनर्मित्रोऽब्रवीत् सखे ! । देशान्तरगतस्याङ्ग ! खेदस्तव भविष्यति ॥ २१ ॥ कालेन कियता तेन यच्छबेन निवेदितम् । तद्भावि सुकुमारत्वात् पञ्चत्वमधुनैव ते ॥ २२ ॥ अमरः स्माह गन्तव्यं दूरदेशान्तरेऽपि भोः । मया सौख्यमसौख्यं वा भोक्तव्यं च त्वया सह ॥ २३ ॥ | ततश्च कृतसङ्केतौ राहानिःसृत्य तावुभौ । जग्मतुः क्रमयोगेन पाटलीपुरपत्तनम् ॥ २४ ॥

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 105