Book Title: Shantinath Charita Part 02
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 26
________________ श्रीशान्तिनाथचरित्रे भ्रान्त्वा त्रिकचतुष्कादिस्थानेषु निखिले पुरे । तानि तत्र समाजग्मुः कुमारो यत्र विद्यते ॥ ७८ ॥ हयेन हेषितं द्राक् हस्तिना गुलगुलायितम् । चक्रे तस्योपरि च्छतं तस्थौ तत्र स्वयं तथा ॥ ७० ॥ वोजितं चामराभ्यां च भृङ्गारेण विनिर्ममे । महीपत्वा'भिषेकोऽस्य, पुण्यैः किं नाम नो भवेत् ॥ ८० ॥ ततस्तं शुण्डयोत्पाद्य गज: स्कन्धेऽध्यरोहयत् । विवेश नगरे सोऽथ सञ्जातानेकमङ्गल: ॥ ८१ ॥ पुरप्रवेश तस्याथ मिलितो महिलाजनः । राजराज्ञयोः स्वरूपं तं दृष्ट्वाऽन्योऽन्यमदोऽवदत् ॥ ८२ ॥ काचिज्जजल्प राज्ञोऽस्य रूपसम्पद'मुत्तमाम् । पश्य विश्वजनश्लाघ्यां हला ! रतिपतरिव ॥ ८३ ॥ अन्याऽवादीत् किमन्यत्त्वं मुग्धे ! वर्णयसि स्फुटम् । देव्याः समानरूपाऽस्या न स्त्री त्रिभुवनेऽपि यत् ॥ ८४ ॥ अपरा स्माह यद्रूपमस्यास्त्रिभुवनोत्तरम् । तदेतत्प्रतिच्छन्दन मोहितोऽयमभून्नप: ॥ ८५ ॥ इतरोचे हला ! पुण्यभागिन्येषा महीतले । यया विश्वजनश्रेष्ठो लब्ध एवंविधो धवः ॥ ८६ ॥ प्रत्यक्तमन्ययोषाभिधन्यो येनेटशी प्रिया । लब्धा विदेशगेनापि लक्ष्मीरिव मुरहिषा ॥ ८७ ॥ (१) ज महीपट्टाभि- | ख ण महोपत्य- । (२) ण रूपसंपद उत्तमाः । (३) ण द प्रत्यकमन्ययैषोऽपि ।

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105