Book Title: Shantinath Charita Part 02
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 68
________________ १६० श्रोशान्तिनाथचरित्रे तत् तथा कारयित्वाऽऽशु निर्विकारा कृताऽप्यसौ । नरसिंहनरेन्द्रेण सदा परहितैषिणा ॥ ७२ ॥ स श्रीजयन्धराचार्योऽन्यदा तत्र समाययौ । यस्य पार्श्वे पिता राज्ञो जितशत्रुरभूद् व्रती ॥ ७३ ॥ धर्मं तदन्तिके श्रुत्वा नरसिंहनृपोऽपि सः । प्रतिबुद्धः सुतं राज्येऽस्थापयद् गुणसागरम् ॥ ७४ ॥ ततो दीक्षामुपादाय तपः कृत्वाऽतिदुष्करम् । निष्कर्मा नरसिंहर्षिरवाप शिवसम्पदम् ॥ ७५ ॥ ॥ इति नरसिंहऋषिकथानकम् ॥ ऊचेऽथ' सुव्रतो भद्रे ! यथा चूर्णेन योगिनः । तस्यास्तस्या नितम्बिन्या अस्थि मज्जाऽधिवासिता ॥ ७६ ॥ तथा त्वमपि कल्पद्रुचिन्तामण्यधिकश्रिया । धर्मेण भावयात्मानं श्रीदत्ते ! दृष्टप्रत्यये ! ॥ ७७ ॥ ततोऽसौ शुद्धसम्यक्तमूलं धर्ममगारिणाम् । प्रतिपेदे मुनेस्तस्य समीपे सरलाऽऽशया || ७८ ॥ व्यहार्षीन्मुनिरन्यत्र श्रीदत्ताऽपि गता ग्टहम् । प्रतिपन्नं निजं धर्मं विधिवत् पर्यपालयत् ॥ ७८ ॥ चकार साऽन्यदा कर्मपरिणामवशादिमाम् । धर्मस्य विषये श्री विचिकित्सां मनोगताम् ॥ ८० ॥ (१) च झ च । (२) च भद - मज्जा हि वासिताः ।

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105