Book Title: Shantinath Charita Part 02
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society
View full book text
________________
१८.
श्रीशान्तिनाथचरित्रे
सखेदोऽथ नृपः स्माहाहो अकार्य कृतं मया । पातकं ब्रह्महत्याया धर्मभ्रान्त्या यदर्जितम् ॥ ३१ ॥ नूनमेष विषस्याम्रः प्रपञ्चं प्रविधाय तम् । मम प्राणविनाशाय केनचित् प्रेषितोऽरिणा ॥ ३२ ॥ ततोऽयं स्वयमुप्तोऽपि पालितोऽपि प्रयत्नतः । बहुप्राणिक्षयकारी छिद्यतां विषपादपः ॥ ३३ ॥ राजादिष्टनराः तीक्ष्ण कुठारैस्तरुपुङ्गवम् । मूलादपि तमाच्छिद्य पातयन्ति स्म भूतले ॥ ३४ ॥ निर्विमा जीवितस्याथ कुष्टरोगादिता जनाः । धावितास्तत् समाकये विषाऽऽम्रतरुच्छेदनम् ॥ ३५ ॥ कश्चित् पक्कमपक्कं वाऽई पक्कं चाऽपरस्तथा । तत्फलं भक्षयामास सुखमृत्युविधित्सया ॥ ३६ ॥ तस्मिन् चूतफले चाऽऽत्ते गतरोगव्यथाः क्षणात् । अभूवंस्ते जनाः सर्वेऽप्यमृताशनसन्निभाः ॥ ३७ ॥ दृष्ट्वा तान् विस्मयाऽऽपन्नः चिन्तयामास भूपतिः । अहो असदृशफलं फलमस्य तरोः कथम् ॥ ३८ ॥ 'गतरोगा: कामतुल्या: संजाता यद्यमी जनाः । यजनादि क्रियाऽऽसक्तः तहिप्रोऽयं कथं मृतः ॥ ३८ ॥ व्याहार्याऽऽरक्षकान् तस्यापृच्छत् तचूतजं फलम् । नोटितं किं नु युभाभिगृहीतं वा धरागतम् ॥ ४० ॥
(१) ङ ट द गत कल्पाः ।
(२) ठ आकार्य।

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105