SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ १८. श्रीशान्तिनाथचरित्रे सखेदोऽथ नृपः स्माहाहो अकार्य कृतं मया । पातकं ब्रह्महत्याया धर्मभ्रान्त्या यदर्जितम् ॥ ३१ ॥ नूनमेष विषस्याम्रः प्रपञ्चं प्रविधाय तम् । मम प्राणविनाशाय केनचित् प्रेषितोऽरिणा ॥ ३२ ॥ ततोऽयं स्वयमुप्तोऽपि पालितोऽपि प्रयत्नतः । बहुप्राणिक्षयकारी छिद्यतां विषपादपः ॥ ३३ ॥ राजादिष्टनराः तीक्ष्ण कुठारैस्तरुपुङ्गवम् । मूलादपि तमाच्छिद्य पातयन्ति स्म भूतले ॥ ३४ ॥ निर्विमा जीवितस्याथ कुष्टरोगादिता जनाः । धावितास्तत् समाकये विषाऽऽम्रतरुच्छेदनम् ॥ ३५ ॥ कश्चित् पक्कमपक्कं वाऽई पक्कं चाऽपरस्तथा । तत्फलं भक्षयामास सुखमृत्युविधित्सया ॥ ३६ ॥ तस्मिन् चूतफले चाऽऽत्ते गतरोगव्यथाः क्षणात् । अभूवंस्ते जनाः सर्वेऽप्यमृताशनसन्निभाः ॥ ३७ ॥ दृष्ट्वा तान् विस्मयाऽऽपन्नः चिन्तयामास भूपतिः । अहो असदृशफलं फलमस्य तरोः कथम् ॥ ३८ ॥ 'गतरोगा: कामतुल्या: संजाता यद्यमी जनाः । यजनादि क्रियाऽऽसक्तः तहिप्रोऽयं कथं मृतः ॥ ३८ ॥ व्याहार्याऽऽरक्षकान् तस्यापृच्छत् तचूतजं फलम् । नोटितं किं नु युभाभिगृहीतं वा धरागतम् ॥ ४० ॥ (१) ङ ट द गत कल्पाः । (२) ठ आकार्य।
SR No.009706
Book TitleShantinath Charita Part 02
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1909
Total Pages105
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy