________________
चतुर्थः प्रस्तावः ।
१८८
बहुग: कारयित्वाऽहममून्याम्रफलानि चेत् । करोमि बहु लोक स्योपकारं तदु महान् गुणः ॥ २१ ॥ ध्या त्वेत्याज्ञापयामाम भूपति: पुरुषान् निजान् । वप्यमेतत् शुभस्थाने महकारो भवेद् यथा ॥ २२ ॥ ततम्तैर्विदधे पुम्भिर्गत्वाऽऽराम मनोहरे । पाय्यते म्म जलं कृत्वाऽऽलवालं परितोऽस्य हि ॥ २३ ॥ तैश्च संप्रीणितो राजा पूर्व तस्याङ्करोगमे । प्रत्यहं नवनवर्डि कथनाच्च ततः परम् ॥ २४ ॥ क्रमाचूतवरे तस्मिन् पुष्पिते फलिते सति । यत्नतो रक्षणीयोऽयमिति रातोदिता नराः ॥ २५ ॥ एवं तेषु प्रकुर्वत्म प्रसुप्तेष्वन्यदा निशि । तस्य दैववश नैकं पतति स्म फलं भुवि ॥ २६ ॥ तत् प्रभाते महोभर्तः प्रहृष्टस्तैः समर्पितम् । देयं पात्राय कम्मैचिदिदं चिन्तयति स्म सः ॥ २७ ॥ आकार्य देवशर्माणं चतुर्वेदधरं द्विजम् । अमृताम्रफलं तस्मै भक्तिपूर्व ददौ नृपः ॥ २८ ॥ सोऽप्यात्ममन्दिरे गत्वा पूजयित्वा च देवताम् । तत्फलं भक्षयामास पञ्चत्वं समवाप च ॥ २८ ॥ केनचित् कथितं राज्ञो देवशर्माऽद्य स हिजः । अमृताम्रफले तस्मिन् भक्षिते संस्थित: प्रभो ! ॥ ३० ॥
(१) क ख ङ ट. तैस्तथा।