Book Title: Shantinath Charita Part 02
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society
View full book text
________________
चतुर्थ: प्रस्तावः ।
१०३
राजन् ! त्वमन्दिरहारे त्वद्दशनममुत्सु काः । चस्वार: पुरुषाः मन्ति मूर्त्या राजसुता इव ॥ ५८ ॥ तत: किं क्रियतां तेषामित्युक्ते म्माऽऽह भूपतिः । शीघ्रमानय तानत्रेत्यानिनाय च मोऽपि तान् ॥ ६ ॥ दत्ताऽऽसनोपविष्टांम्तान् निरीक्ष्य विहितानतीन् । दयौ राजाऽनयाऽऽकत्या न नमते सुवंशजाः ॥ ६१ ॥ ताम्बूलादिप्रदानेन संमान्याभाषिताम्ततः । कुतो यूयमिहाऽऽयाता: केनार्थेन ति भूभुजा ॥ ६२ ॥ अथोवाचानुजस्तेषामस्ति देवोत्तरापथे । सुवर्णतिलकं नाम विख्यातमवनी पुरम् ॥ ६३ ॥ तद् वैरिमर्दनो राजा न्यायेन प्रत्यपालयत् । तस्य रूपवती नाना चारुरूपवती प्रिया ॥ ६४ ॥ तयोः क्रमेण सञ्जातायत्वारस्तनया वराः । तेषां नामानि चामूनि प्रदत्तानि क्रमेण हि ॥ ६५ ॥ प्रथमो देवराजाख्यो वत्सराजो द्वितीयकः । तृतीयो दुर्लभराजः कीर्तिराजचतुर्थकः ॥ ६६ ॥ सर्वे शुभकलाऽभ्यामं कारिता जनकेन ते । प्राप्ताथ योवनं स्वानुरूपकन्या विवाहिताः ॥ ६७ ॥ अन्येदाः स महीपालो निवर्तकरुजाऽदितः । राज्ये संस्थापयामास देवराज सुताग्रिमम् ॥ ६८ ॥ दत्त्वा शिक्षामथो तस्मै परलोकमियाय सः । खं राज्यं देवराजोऽपि कियत्कालमपालयत् ॥ ६८ ॥

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105