Book Title: Shantinath Charita Part 02
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society
View full book text
________________
१८०
श्रीशान्तिनाथचरित्रे
ससहायः सपाथेयः समादाय क्रयाणकम् । विदधे सार्थसंयुक्तः स शुभेऽगि प्रयाणकम् ॥ २८ ॥ कृत्वाऽनुगमनं तस्य किञ्चिदध्वानमञ्जसा । येष्ठो निवर्तमानोऽथ शिक्षामेवंविधामदात् ॥ ३० ॥ त्यागिना कपणेनैव निवृणेन दयालुना । विदेशगेन भवता भाव्यं शूरतरेण च ॥ ३१ ॥ सर्वथाऽलब्धमध्यस्त्वं भूया वत्स ! ममाऽऽज्ञया। शिक्षां दत्त्वेति वलितः श्रेष्ठी स प्रचचाल च ॥ ३२ ॥
आगच्छाऽऽगच्छ भोः ! अत्र तिष्ठोत्तिष्ठ व्रज द्रुतम् । इत्यादिवाक्यतुमुल: सार्थमध्ये तदाऽभवत् ॥ ३३ ॥ 'श्रीपुरं नगरं प्राप्तस्तत्र चोपसरोवरम् । सार्थोऽस्थात् सार्थनाथस्तु रम्ये पटकुटीतटे ॥ ३४ ॥ तदैकः कम्पमानाङ्गो भयात् चञ्चललोचनः । पुरुषः शरणं कश्चिद धनदत्तमुपाश्रितः ॥ ३५ ॥ तेनैवं भणितः सोऽथ मा भेषोस्त्वं कुतोऽपि भोः !। महत्यद्यापराधेऽपि मत्समीपमुपागतः ॥ ३६ ॥ अत्रान्तरे हत हतेतिवदन्त उदायुधाः । आरक्षकनरा एत्य सार्थवाहमदोऽवदन् ॥ ३७॥ दासोऽयं नरनाथस्य तस्याऽऽभरणमुत्तमम् । ग्राहीत्वा हारयामास द्यूतकारस्य सन्निधौ ॥ ३८ ॥
(१) ख घ क श्रीपुरे नगरे प्राप्ते त- । (२) ड ज द -ग्टहे।

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105