Book Title: Shantinath Charita Part 02
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 91
________________ चतुर्थः प्रस्तावः । १८३ तस्य मिहवती भार्या जीवितादपि वलभा। । वर्तते प्राणमन्दहे मा भूतग्रहपीडया ॥ ६१ ॥ पल्लिनाथोऽपि नः स्वामी वियोगऽम्या मरिष्यति । एतेन कारण नाहं दुःखितो भद्र ! रोदिमि ॥ ६२ ॥ माथवाहस्ततोऽवादोदेकवारमहं दृगा। पश्यामि तां यतो मेऽस्ति मन्वो भूतग्रहापहः ॥ ६३ ॥ तेनाथ पल्लिनाथस्याऽऽचख्ये तमोऽपि सत्वरम् । प्रेयमों तां ममादाय तत्समीपमुपाययौ ॥ ६४ ॥ विलोक्य सार्थवाहोऽपि कृत्वा च मकलाकतिम् । मन्त्रजापविधानेन निर्दोषां विचकार ताम् ॥ ६५ ॥ जीवदानोपकारं तं कृत्वा पल्लीपति: स तु । विसृष्टः सार्थवाहन स्वपल्लों पुनरप्यगात् ॥ ६६ ॥ वलितो धनदत्तोऽपि ततः स्थानात् शनैः शनैः । वेलाकूलगतं प्राप गम्भीराख्यं पुरं वरम् ॥ ६७ ॥ कृत्वा निवेशं सार्थस्य तस्थुषस्तत्र पत्तने । न मनोवाञ्छितो लाभो बभूवास्य कथञ्चन ॥ ६८ ॥ ततोऽसो चिन्तयामास पाथात्य प्रहरी निश: । अर्जयिष्याम्यहं वित्तमागाह्य सरितां पतिम् ॥ ६८ ॥ इति चिन्तापरस्यास्य विगता मा विभावरी । ततथोत्याय शय्याया वेलाकूल मियाय म: ॥ ७० ॥ रङ्गत्तरङ्गमालाभिरभ्युत्थान इवोत्थितम् । विधिनः पूजयामास सार्थवाहः सरित्पतिम् ॥ ७१ ॥

Loading...

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105