Book Title: Shantinath Charita Part 02
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society
View full book text
________________
१७४
श्रीशान्तिनाथचरित्रे
दायादैरन्यदा तच्च संभूय बलवत्तरैः । प्रसह्य स्वीकृतं देशात् निरासे स च सानुजः ॥ ७० ॥ देवराजः स देवाज्यमाययौ युष्मदन्तिके । सेवाविधित्सयाऽस्माभिरनुजैः परिवारितः ॥ ७१ ॥ गुणदूतसमाहता भवतामन्तिके वयम् । धृत्वा सम्भावनां चित्ते समायाता महीपते ! ॥ ७२ ॥ हृष्टो राजाऽवदद् ययं मम पाखें यदागताः । तत्साधु विहितं सन्तः सतां शरणमेव यत् ॥ ७३ ॥ प्रतीहारं समादिश्य राज्ञा वृत्तिसमन्वितः । निवासाय ततस्तेषामावासः प्रवरोऽर्पितः ॥ ७४ ॥ दृढभक्तिपरा: प्रौढाः सेवकास्ते महोभुजा। . प्रसादपूर्वकं स्वाङ्गरक्षकत्वे नियोजिताः ॥ ७५ ॥ . रात्रेश्चतुर्षु यामेषु चत्वारोऽपि क्रमेण ते । चक्रिरे नृपते रक्षां शयितस्य धृताऽऽयुधाः ॥ ६ ॥ ग्रीष्मकालेऽन्यदा देवराजोऽनुज्ञाप्य भूपतिम् । ग्रामे क्वापि समासन्ने ययौ कार्येण केनचित् ॥ ७७ ॥ कार्यं कृत्वा स मध्याह्ने वलितो यावदन्तरे । भीषणा तावदुत्तस्थौ प्रबला वातमण्डली ॥ ७ ॥ धूलिरुच्छलति स्मोच्चैः प्रचण्डपवनोदता। निपेतुः कर्कराः पत्रणानि भ्रमरम्बर ॥ ७८ ॥ पपात विरलं चाम्बु गुरुगर्जारवोत्कटम् । विललास तथा विद्युद् दृष्टि सन्तापकारिणी ॥ ८० ॥

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105