Book Title: Shantinath Charita Part 02
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 78
________________ श्रीशान्तिनाथचरित्रे देव ! लक्ष्मीवतो देवी युष्माभिः सह वाञ्छति । कर्तुं सूरनिपाताख्योद्याने सुरभिखेलनम् ॥ २८॥ वज्रायुधकुमारोऽथ सप्तराज्ञीशताग्राया। लक्ष्मीवत्या समं देव्या तदुद्यानमगादरम् ॥ २८ ॥ तत्र नानाविधक्रीडाः कर्तुं प्रववृते जनः । कुमारश्च ययौ वापों सप्रियः प्रियदर्शनः ॥ ३० ॥ तत्र प्रविश्य पत्नीभिः सानुरागाभिरञ्चितः । निरासन्नीकृतव्रीडां जलक्रीडां चकार सः ॥ ३१ ॥ दमितारेरथो जीवो भवं भ्रान्त्वा पुरा भवे । कृत्वा किञ्चिदनुष्ठानं विद्युदंष्ट्रः सुरोऽभवत् ॥ ३२ ॥ जलक्रीडापरं वीक्ष्य कुमारं पूर्वमत्सरात् । तहधार्थ महाशैलं वाप्या उपरि सोऽमुचत् ॥ ३३ ॥ अधस्तानागपाशैश्च तं बबन्ध दुराशयः । वज्रायुधोऽपि चक्रीति महाबलसमन्वितः ॥ ३४ ॥ अधिष्ठितश्च यक्षाणां सहस्रहितयेन सः। बिभेद तं नगं नागपाशान् त्रोटयति स्म च ॥३५॥ (युग्मम्) ततो वाप्या विनिर्गत्य सर्वराज्ञीगणाऽऽवृतः । अक्षताङ्गः कुमारोऽसौ चिरं चिकोड कानने ॥ ३६ ॥ अत्रान्तरे सहस्राक्षो जिनं नत्वा विदेहतः। - वलितः शाश्वतयात्राकते नन्दीश्वरं प्रति ॥ ३७॥ वापीमध्यान्नगं भित्त्वा छित्त्वा पाशांश्च सप्रियम् । निगच्छन्तं कुमारं तं पश्यति स्म सविस्मयः ॥ ३८ ॥

Loading...

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105