Book Title: Shantinath Charita Part 02
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 69
________________ तृतीयः प्रस्तावः । जैनं धर्मममुं रम्यं यत्नतः प्रकरोम्यहम् । परमस्य फलं भावि न वेति जायते न हि ॥ ८१ ॥ विचिकित्सामिमां कृत्वा मृत्वा चायुःचये मका । सञ्जाता यत्र तदितः स्थानं सङ्गीर्तयाम्यहम् ॥ ८२ ॥ विजयेऽत्रैव वैताब्ये नगरे सुरमन्दिरे । राजा कनकपूज्योऽभूद् वायुवेगा च तप्रिया ॥ ८३ ॥ तस्य कीर्तिमतो राज्ञः पुत्रः कीर्तिधरोऽस्माहम् । ममाप्यनिल वेगाख्या बभूव महचारिणो ॥ ८४ ॥ गजकुम्भबलीवर्दस्वप्नत्रितयमूचितः । प्रतिविष्णुर्नृपो जज्ञे दमितारिर्ममाऽऽत्मजः ॥ ८५ ॥ उदयौवनो मया बही: म कन्याः परिणायितः ! स्थापितश्च निजे राज्ये मया चाऽऽत्ताऽनगारता ॥ ८६ ॥ दमितारेर्नृपस्यास्य मदिरा नाम वल्लभा । तत्कुतिमम्भवा पुत्री कनकश्रीर्भवत्यभूत् ॥ ८७ ॥ यत् त्वया विहिता धर्मविचिकित्सा पुरा भवे | तत् ते बन्धुवियोगादि भद्रे ! दुःखमभूदिदम् ॥ ८८ ॥ निजं पूर्वभवं श्रुत्वा पितामहमुनेर्मुखात् । जातसंसारवैराग्या दमितारिनृपात्मजा ॥ ८८ ॥ ऊचेऽपराजितानन्तवीर्यावेवं कृताञ्जलिः । चेद युवामनुजानीथ 'स्तदद्य प्रव्रजाम्यहम् ॥ ८० ॥ ( १ ) ख घ च ज झ -स्तदाऽऽय! | २१ १६९

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105