Book Title: Shantinath Charita Part 02
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 71
________________ तृतीयः प्रस्तावः । परिवेषितया स्थाले स्वस्य पारणहेतवे । प्रत्यलाभि तया माधू रमवत्या मनोजया ॥ १ ॥ मुनेः प्रभावतस्तस्य तत्र तद्भक्तिरञ्जितैः । विहितानि सुग्रामन् पञ्च दिव्यानि तत्क्षणात् ॥ २ ॥ म स्वस्थानमगात् माधुस्तद् दृष्ट्वा बलकेश्वी चिन्तयामासतुः कन्या धन्येयं कृतपुण्यका ॥ ३ ॥ आलोच्य मन्त्रिणा माई महानन्देन तौ ततः । कारयामासतुयास्याः कृते रम्यं स्वयंवरम् ॥ ४ ॥ एत्य दूतममाहताः सर्वेऽपि पृथिवीभुजः । श्रामीना ग्रामनेषचैः स्वयंवरणमण्डपे ॥ ५ ॥ कन्याऽपि कृतशृङ्गारा मखीवृन्दममन्विता । वरमालाऽङ्गितकरा यावत् तत्र समागता ॥ ६ ॥ तावद देवतया पूर्वभवस्वस्रा प्रबोधिता । कृतसङ्केतया तत्राऽऽगतया व्रतहेतवे ॥ ७ ॥ अनुज्ञाप्य नृपान् सर्वान् स्वयम्वरममागतान् । मुरारिबलभद्राभ्यामनुज्ञाता विशेषतः ॥ ८ ॥ पञ्चकन्याशतैः सार्द्धं प्रतिपद्यानगारताम् । समीपे सुव्रताऽऽर्यायाः मा 'चचार तपोऽमलम् ॥८॥ युग्मम्) चपक श्रेणिमारूढा क्रमात् संप्राप्तकेवला । प्रतिबोधितभव्यौघा ययौ माऽपि शिवं सती ॥ १० ॥ (१) ग परिवेष्य- । (२) ख घ झ ड, कन्या पञ्चशतैः 1 १६३ (३) ञ चकार ।

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105