Book Title: Shantinath Charita Part 02
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society
View full book text
________________
टतीयः प्रस्तावः ।
१४८
यत्र कम पापेषु न स्तोकमपि वर्जनम् । जानी थोऽविरतिं तां हि मर्वदुःखनिबन्धिनीम् ॥ ६५ ॥ कोपो मानथ माया च लोभश्चेति निवेदिताः । मूलं संमारवामस्य कषाया जिनगासने ॥ ६६ ॥ क्षान्तविपर्ययः कोपो मानोऽमार्दवमंजितः । मायाऽऽर्जवस्य वैरूप्यं लोभी मुक्तविपर्ययः ॥ ६७ ॥ मदिरा विषयाश्चैव निद्राय विकथाम्तथा । प्रमादाः कथिता: पञ्च कषायमहिता इमे ॥ ६८ ॥ काष्ठपिष्टादिनिष्पन्ना कथिता मदिरा विधा। शब्दपरमगन्ध स्पर्शाख्या विषयास्तथा ॥ ६८ ॥ निद्रा च निद्रानिद्रा च हतीया प्रचलाऽभिधा । प्रचलाप्रचला तुर्या स्त्यानाईः पञ्चमी भवेत् ॥ ७० ॥ 'मुखबोधा भवेन्निद्रा दुःखबोधाऽतिनिद्रिका। प्रचला मंनिविष्टस्य चतुर्थी गच्छतो भवेत् ॥ ७१ ॥ दिनचिन्तितकार्यस्य साधनी पञ्चमी पुनः । सा तूदये भवेज्जन्तोरतिसंक्लिष्टकर्मण: ॥ ७२ ॥ सीकथा भक्तवार्ता च राजदेशकथा तथा । चतस्रो विकथा एता वर्जनीया विवेकिना ॥ ७३ ॥
(१) घ ङ च ज झ, सुखबोधो भवेन्निद्रा दुःखबोधोऽति-। (२) घ च ज झ, भवेत् ।

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105