Book Title: Shantinath Charita Part 02
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society
View full book text
________________
१५४
श्रीशान्तिनाथचरित्र
अन्येद्यदस्य नैकेनातिप्रचण्डेन मायिना। अग्रोणालक्षितेन मुष्यते स्म पुरी सका ॥ १२ ॥ महाजनेन विज्ञप्ते तस्मिन्नर्थे महीभुजा। आरक्षकः समादिष्टश्चौरनिग्रहहेतवे ॥ १३ ॥ पुनर्विज्ञापयामासान्येद्युभूपं महाजनः । मुषिता निखिला देव ! तस्करण पुरी तव ॥ १४ ॥ सुरूपा यौवनस्था च या काचिदबलाऽभवत् । साऽपि रात्रौ तस्करेण नीयते स्म बलादपि ॥ १५ ॥ वासस्थानं ततोऽस्माकं किञ्चिदन्यत् प्रदर्शय । निवसामी वयं तत्र नृनाथ ! निरुपद्रवाः ॥ १६ ॥ ततश्चारक्षको राज्ञा कडेनैवं प्रजल्पितः । रे खं रहून् ! विना रक्षामधमोऽसि 'किं मम ? ॥१७॥ महाजनेन भणितं दोषो नास्त्यस्य कश्चन । अमुना सबलेनापि चौरो धर्तुं न शक्यते ॥ १८ ॥ तथा मया विधातव्यं यथा भव्यं भविष्यति । इत्युदित्वा नरेन्द्रेण विसृष्टोऽथ महाजन: ॥ १८ ॥ वण्ठवेषो नृपो रात्री निर्गत्य निजमन्दिरात् । शङ्कास्थानेषु बभ्राम कुवंश्चौरगवेषणम् ॥ २० ॥ रात्रौ भ्रान्तः पुरीमध्ये बहिष्युर्या दिवा पुनः । तथाऽपि कापि नो दृष्टः स दुष्टस्तस्करोऽमुना ॥ २१ ॥
(१) ख घ च ज झ - दबला भवेत् । (३) च ज ठ किचन।

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105