Book Title: Shantinath Charita Part 02
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 64
________________ १५६ श्रीशान्तिनाथचरित्रे यवेक्षवो व्रीहयश्च जायते च कृषित्रयम् । सर्वसाधारणो लोको मध्यदेशः स वोचितः ॥ ३२ ॥ गोधूमाः प्रचुरा यत्र दुष्प्रापं लवणं तथा । सजलः सकलोऽप्येष मालवोऽपि निरीक्षितः ॥ ३३ ॥ विदण्डिवेषभृञ्चौरः स श्रुत्वैवं व्यचिन्तयत् । अयं हि पथिकोऽवश्यं द्रव्यार्थी सदृशो मम ॥ ३४ ॥ बभाषे च मम त्वं चेद भणितं भोः ! करिष्यसि । तन्मनोवाञ्छितं द्रव्यमचिरात् समवाप्सासि ॥ ३५ ॥ नृपः 'प्रोवाच यो द्रव्यं ददाति हृदयेप्सितम् । न केवलमहं तस्य सर्वोऽप्याज्ञाकरो जनः ॥ ३६ ॥ सोऽवदत् सांप्रतं तर्हि वर्तते भोः ! तमखिनो । पारदारिकदस्यूनां दुष्टानां च प्रियङ्करो ॥ ३७ ॥ तदुत्तिष्ठ कृपाणं त्वं करे कुरु, यथा पुरे । प्रविश्याऽऽनीयते द्रव्यं कुतोऽपीश्वरमन्दिरात् ॥ ३८ ॥ राजाऽपि चिन्तयामास नूनमेष स तस्करः । तदेनं हन्मि वा पश्याम्यथो यद्विदधात्यसौ ॥ ३८ ॥ ततः खड्ग चकर्षासौ दध्यौ संवीक्ष्य योग्यपि । ईदृशेनैव खड़ेन नगरोशो विभाव्यते ॥ ४० ॥ (१) घ च ज द प्रोचे च । (2) च -लम् । (३) खध च ज ठ तं वीच्झ ।

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105