________________
१५६
श्रीशान्तिनाथचरित्रे
यवेक्षवो व्रीहयश्च जायते च कृषित्रयम् । सर्वसाधारणो लोको मध्यदेशः स वोचितः ॥ ३२ ॥ गोधूमाः प्रचुरा यत्र दुष्प्रापं लवणं तथा । सजलः सकलोऽप्येष मालवोऽपि निरीक्षितः ॥ ३३ ॥ विदण्डिवेषभृञ्चौरः स श्रुत्वैवं व्यचिन्तयत् । अयं हि पथिकोऽवश्यं द्रव्यार्थी सदृशो मम ॥ ३४ ॥ बभाषे च मम त्वं चेद भणितं भोः ! करिष्यसि । तन्मनोवाञ्छितं द्रव्यमचिरात् समवाप्सासि ॥ ३५ ॥ नृपः 'प्रोवाच यो द्रव्यं ददाति हृदयेप्सितम् । न केवलमहं तस्य सर्वोऽप्याज्ञाकरो जनः ॥ ३६ ॥ सोऽवदत् सांप्रतं तर्हि वर्तते भोः ! तमखिनो । पारदारिकदस्यूनां दुष्टानां च प्रियङ्करो ॥ ३७ ॥ तदुत्तिष्ठ कृपाणं त्वं करे कुरु, यथा पुरे । प्रविश्याऽऽनीयते द्रव्यं कुतोऽपीश्वरमन्दिरात् ॥ ३८ ॥
राजाऽपि चिन्तयामास नूनमेष स तस्करः । तदेनं हन्मि वा पश्याम्यथो यद्विदधात्यसौ ॥ ३८ ॥ ततः खड्ग चकर्षासौ दध्यौ संवीक्ष्य योग्यपि । ईदृशेनैव खड़ेन नगरोशो विभाव्यते ॥ ४० ॥
(१) घ च ज द प्रोचे च ।
(2)
च -लम् ।
(३) खध च ज ठ तं वीच्झ ।