Book Title: Shantinath Charita Part 02
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society
View full book text
________________
तृतीयः प्रस्तावः।
तन्मया मारगीयोऽयमुपायेन हि केनचित् । इति ध्यात्वाऽग्रतो गत्वा वलितोऽमौ झटित्यपि ॥ ४१ ॥ जाग-द्यापि पूर्लोको विधामं कुर्वहे ततः । क्षणमे कमिहाऽऽवां भोरित्यूचे च नृप प्रति ॥ ४२ ॥ ततस्तदाऽऽजया राजा चक्रे पल्लवसंम्तरी। तत्रैकत्र म विथान्तो हितोये पार्थिवः स्वयम् ॥ ४३ ॥ मयि जाग्रति नेषोऽपि शयिष्यते कथञ्चन । चिन्तयित्वेति सुष्वाप मंतर मोऽथ तस्करः ॥ ४४ ॥ झटित्यथो समुत्थाय स्वस्थानेऽस्थापयनृपः । महत्काष्ठं, स्वयं चास्थात् मासिवृक्षस्य कोटरे ॥ ४५ ॥ त्रिदण्डी खड्गमाकृष्य तस्करोऽपि समुत्थितः । तत्काष्ठममिघातेन नृपभ्रान्त्या हिधा व्यधात् ॥ ४६ ॥ अपसार्य पटौं स्पर्शादिना विज्ञाय दारु तत् । धूर्तेन वञ्चितोऽम्मोति पश्चात्तापं चकार च ॥ ४७ ॥ राजा सोऽभाणि रे दुष्ट ! मया त्वं मायमेऽधना। विद्यते पौरुषं चेत् ते ततो मेऽभिमुखो भव ॥ ४८ ॥ माधु साध्विति चौरोऽपि बलात् निखिंशपाणिकः । संग्रामाय समं राजाऽभ्यढौकिष्ट स दुष्टधीः ॥ ४८ ॥ खड्गाखगि चिरं कृत्वा दोषमता पृथिवीभुजा। मर्म प्रदेश आहत्य पातितोऽसौ महीतले ॥ ५० ॥ विधुरम्तेन घातेन तस्करः ममाह भूपतिम् । सोऽहं दस्य रहो वीर ! येनेयं मुपिता पुरी ॥ ५१ ॥

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105