Book Title: Shantinath Charita Part 02
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 58
________________ श्रीशान्तिनाथचरित्रे मनोवचनकाया ख्यास्त्रयो योगा: प्रकीर्तिताः । अप्रशस्ता भवन्त्येते कर्मबन्धस्य हेतवः ॥ ७४ ॥ सर्वमेतत् परित्यज्य पापकर्मनिबन्धनम् । विदधीत मतिं धर्मे भव्यो मुक्तिसुखप्रदे ॥ ७५ ॥ अत्रान्तरे कनकधी: सा पप्रच्छेति तं मुनिम् । अभूहन्धुवियोगो मे पितुर्मत्युश्च किं प्रभो ! ॥ ७६ ॥ ततः कीर्तिधरणोक्तं तद् भद्रे ! शृणु कारणम् । येन बन्धवियोगादि तव दुःखमभूदितः ॥ ७७ ॥ अस्त्यत्र धातकीखण्डे द्वीपे प्राग्भरते पुरम् । नाना शङ्खपुरं भूरिधनधान्यसमाकुलम् ॥ ७८ ॥ काचिदुच्छिन्नसन्ताना श्रीदत्ता नाम दुर्गता। तत्राभूदबला कर्मकरणावाप्तजीवना ॥ ७ ॥ पौडिता दुर्गतत्वेन निशम्य मुनिसनिधी। चकार माऽन्यदा धर्मचक्रवालाभिधं तपः ॥ ८० ॥ त्रिरात्रहितयं तत्र प्रथमं क्रियते तपः । सप्तत्रिंशञ्चतुर्थानि शक्त्याऽऽर्चा गुरुदेवयोः ॥ ८१ ॥ ददौ तस्यै जन: सर्व: संप्रीतः पारणाहनि । मनोज्ञभक्ष्यभोज्यादि तपो हि महितं जने ॥ ८२ ॥ (१) घ च झ -नां वियोगाश्च । ज -नां त्रयो-। (२) ख घ च ज झ -दिति । (३) ख घ च ज झ द · भोज्यानि ।

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105